भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.30

2.30.1

॥11॥.
-र्व्_2:7।12-
(र्व्_2,30)
ऋतम् । देवाय । कृण्वते । सवित्रे । इन्द्राय । अहि-घ्ने । न । रमन्ते । आपः । अहः-अहः । याति । अक्तुः । अपाम् । कियति । आ । प्रथमः । सर्गः । आसाम्

2.30.2

यः । वृत्राय । सिनम् । अत्र । अभरिष्यत् । प्र । तम् । जनित्री । विदुषे । उवाच । पथः । रदन्तीः । अनु । जोषम् । अस्मै । दिवे--दिवे । धुनयः । यन्ति । अर्थम्

2.30.3

ऊर्ध्वः । हि । अस्थात् । अधि । अन्तरिक्षे । अध । वृत्राय । प्र । वधम् । जभार । मिहम् । वसानः । उप । हि । ईम् । अदुद्रोत् । तिग्म-आयुधः । अजयत् । शत्रुम् । इन्द्रः

2.30.4

बृहस्पते । तपुषा । अश्नाइव । विध्य । वृक-द्वरसः । असुरस्य । वीरान् । यथा । जघन्थ । धृषता । पुरा । चित् । एव । जहि । शत्रुम् । अस्माकम् । इन्द्र

2.30.5

अव । क्षिप । दिवः । अश्मानम् । उच्चा । येन । शत्रुम् । मन्दसानः । नि-जूर्वाः । तोकस्य । सातौ । तनयस्य । भूरेः । अस्मान् । अर्धम् । कृणुतात् । इन्द्र । गोनाम्

2.30.6

॥12॥.
-र्व्_2:7।13-
प्र । हि । क्रतुम् । वृहथः । यम् । वनुथः । रध्रस्य । स्थः । यजमानस्य । चोदौ । इन्द्रासोमा । युवम् । अस्मान् । अविष्टम् । अस्मिन् । भय-स्थे । कृणुतम् । ओं इति । लोकम्

2.30.7

न । मा । तमत् । न । श्रमत् । न । उत । तन्द्रत् । न । वोचाम । मा । सुनोत । इति । सोमम् । यः । मे । पृणात् । यः । दृत् । यः । नि-बोधात् । यः । मा । सुन्वन्तम् । उप । गोभिः । आ । अयत्

2.30.8

सरस्वति । त्वम् । अस्मान् । अविड्ढि । मरुत्वती । धृषती । जेषि । शत्रून् । त्यम् । चित् । शर्धन्तम् । तविषी-यमाणम् । इन्द्रः । हन्ति । वृषभम् । शण्डिकानाम्

2.30.9

यः । नः । सनुत्य । उत । वा । जिघत्नुः । अभि-ख्याय । तम् । तिगितेन । विध्य । बृहस्पते । आयुधैः । जेषि । शत्रून् । दुहे । रिषन्तम् । परि । धेहि । राजन्

2.30.10

अस्माकेभिः । सत्व-भिः । शूर । शूरैः । वीर्या । कृधि । यानि । ते । कर्त्वानि । ज्योक् । अभूवन् । अनु-धूपितासः । हत्वी । तेषाम् । आ । भर । नः । वसूनि

2.30.11

तम् । वः । शर्धम् । मारुतम् । सुम्न-युः । गिरा । उप । ब्रुवे । नमसा । दैव्यम् । जनम् । यथा । रयिम् । सर्व-वीरम् । नशामहै । अपत्य-साचम् । श्रुत्यम् । द् इवे--दिवे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc