भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.29

2.29.1

॥10॥.
-र्व्_2:7।11-
(र्व्_2,29)
धृत-व्रताः । आदित्याः । इषिराः । आरे । मत् । कर्त । रहसूः-इव । आगः । शृण्वतः । वः । वरुण । मित्र । देवाः । भद्रस्य । विद्वान् । अवसे । हुवे । वः

2.29.2

यूयम् । देवाः । प्र-मतिः । यूयम् । ओजः । यूयम् । द्वेषांसि । सनुतः । युयोत । अभि-क्षत्तारः । अभि । च । क्षमध्वम् । अद्य । च । नः । मृळयत । अपरम् । च

2.29.3

किम् । ओं इति । नु । वः । कृणवाम । अपरेण । किम् । सनेन । वसवः । आप्येन । यूयम् । नः । मित्रावरुणा । अदिते । च । स्वस्तिम् । इन्द्रामरुतः । दधात

2.29.4

हये । देवाः । यूयम् । इत् । आपयः । स्थ । ते । मृळत । नाधमानाय । मह्यम् । मा । वः । रथः । मध्यम-वाट् । ऋते । भूत् । मा । युष्मावत्-सु । आपिषु । श्रमिष्म

2.29.5

प्र । वः । एकः । मिमय । भूरि । आगः । यत् । मा । पिताइव । कितवम् । शशास । आरे । पाशाः । आरे । अघानि । देवाः । मा । मा । अधि । पुत्रे । विम्-इव । ग्रभीष्ट

2.29.6

अर्वाञ्चः । अद्य । भवता । यजत्राः । आ । वः । हार्दि । भयमानः । व्ययेयम् । त्राध्वम् । नः । देवाः । नि-जुरः । वृकस्य । त्राध्वम् । कर्तात् । अव-पदः । यजत्राः

2.29.7

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरि-दाव्नः । आ । विदम् । शूनम् । आपेः । मा । रायः । राजन् । सु-यमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc