भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.2

2.2.1

॥19॥.
-र्व्_2:5।20-
(र्व्_2,2)
यज्ञेन । वर्धत । जात-वेदसम् । अग्निम् । यजध्वम् । हविषा । तना । गिरा । सम्-इधानम् । सु-प्रयसम् । स्वः-नरम् । द्युक्षम् । होतारम् । वृजनेषु । धूः-सदम्

2.2.2

अभि । त्वा । नक्तीः । उषसः । ववाशिरे । अग्ने । वत्सम् । न । स्वसरेषु । धेनवः । दिवः-इव । इत् । अरतिः । मानुषा । युगा । आ । क्षपः । भासि । पुरु-वार । सम्-यतः

2.2.3

तं । देवाः । बुध्ने । रजसः । सु-दंससम् । दिवःपृथिव्योः । अरतिम् । नि । एर् इरे । रथम्-इव । वेद्यम् । शुक्र-शोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्र-शंस्यम्

2.2.4

तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्-इव । सु-रुचम् । ह्वारे । आ । दधुः । पृश्न्याः । पतरम् । चितयन्तम् । अक्ष-भिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु

2.2.5

सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ओं इति । हव्यैः । मनुषः । ऋञ्जते । गिरा । हिरि-शिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृ-भिः । चितयत् । रोदसी इति । अनु

2.2.6

॥20॥.
-र्व्_2:5।21-
सः । नः । रेवत् । सम्-इधानः । स्वस्तये । सम्-ददस्वान् । रयिम् । अस्मासु । दीदिहि । आ । नः । कृणुष्व । सुविताय । रोदसी इति । अग्ने । हव्या । मनुषः । देव । वीतये

2.2.7

दाः । नः । अग्ने । बृहतः । दाः । सहस्रिणः । दुरः । न । वाजम् । श्रुत्यै । अप । वृधि । प्राची इति । द्यावापृथिवी इति । ब्रह्मणा । कृधि । स्वः । न । शुक्रम् । उषसः । वि । दिद्युतुः

2.2.8

सः । इधानः । उषसः । राम्याः । अनु । स्वः । न । दीदेत् । अरुषेण । भानुना । होत्राभिः । अग्निः । मनुषः । सु-अध्वरः । राजा । विशाम् । अतिथिः । चारुः । आयवे

2.2.9

एव । नः । । अग्ने । अमृतेषु । पूर्व्य । धीः । पीपाय । बृहत्-दिवेषु । मानुषा । दुहाना । धेनुः । वृजनेषु । कारवे । त्मना । शतिनम् । पुरु-रूपम् । इषणि

2.2.10

वयम् । अग्ने । अर्वता । वा । सु-वीर्यम् । ब्रह्मणा । वा । चितयेम । जनान् । अति । अस्माकम् । द्युम्नम् । अधि । पञ्च । कृष्टिषु । उच्चा । स्वः । न । शुशुचीत । दुस्तरम्

2.2.11

सः । नः । बोधि । सहस्य । प्र-शंस्यः । यस्मिन् । सु-जाताः । इषयन्त । सूरयः । यम् । अग्ने । यज्ञम् । उप-यन्ति । वाजिनः । नित्ये । तोके । दीदि-वांसम् । स्वे । दमे

2.2.12

उभयासः । जात-वेदः । स्याम । ते । स्तोतारः । अग्ने । सूरयः । च । शर्मणि । वस्वो । रायः । पुरु-चन्द्रस्य । भूयसः । प्रजावतः । सु-अपत्यस्य । शग्धि । नः

2.2.13

ये । स्तोतृ-भ्यः । गो--अग्राम् । अश्व-पेशसम् । अग्ने । रातिम् । उप-सृजन्ति । सूरयः । अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc