भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.28

2.28.1

॥8॥.
-र्व्_2:7।9-
(र्व्_2,28)
इदम् । कवेः । आदित्यस्य । स्व-राजः । विश्वानि । सन्ति । अभि । अस्तु । मह्ना । अति । यः । मन्द्रः । यजथाय । देवः । सु-कीर्तिम् । भिक्षे । वरुणस्य । भूरेः

2.28.2

तव । व्रते । सु-भगासः । स्याम । सु-आध्यः । वरुण । तुस्तु-वांसः । उप-अयने । उषसाम् । गो--मतीनाम् । अग्नयः । न । जरमाणाः । अनु । द्यून्

2.28.3

अव । स्याम । पुरु-वीरस्य । शर्मन् । उरु-शंसस्य । वरुण । प्रनेतरित् इप्र-नेतः । यूयम् । नः । पुत्राः । अदितेः । अदब्धाः । अभि । क्षमध्वम् । युज्याय । देवाः

2.28.4

प्र । सीम् । आदित्यः । असृजत् । वि-धर्ता । ऋतम् । सिन्धवः । वरुणस्य । यन्ति । न । श्राम्यन्ति । न । वि । मुचन्ति । एते । वयः । न । पप्तुः । रघु-या । परि-ज्मन्

2.28.5

वि । मत् । श्रथय । रशनाम्-इव । आगः । ऋध्याम । ते । वरुण । खाम् । ऋतस्य । मा । तन्तुः । छेदि । वयतः । धियम् । मे । मा । मात्रा । शारि । अपसः । पुरा । ऋतोः

2.28.6

॥9॥.
-र्व्_2:7।10-
अपो इति । सु । म्यक्ष । वरुण । भियसम् । मत् । सम्-राट् । ऋत-वः । अनु । मा । गृभाय । दाम-इव । वत्सात् । वि । मुमुग्धि । अंहः । नहि । त्वत् । आर्ते । नि-मिषः । चन । ईशे

2.28.7

मा । नः । वधैः । वरुण । ये । ते । इष्टौ । एनः । कृण्वन्तम् । असुर । भ्रीणन्ति । मा । ज्योतिषः । प्र-वसथानि । गन्म । वि । सु । मृधः । शिश्रथः । जीवसे । नः

2.28.8

नमः । पुरा । ते । वरुण । उत । नूनम् । उत । अपरम् । तुवि-जात । ब्रवाम । त्वे इति । हि । कम् । पर्वते । न । श्रितानि । अप्र-च्युतानि । दुः-दभ । व्रतानि

2.28.9

परा । ऋणा । सावीः । अध । मत्-कृतानि । मा । अहम् । राजन् । अन्य-कृतेन । भोजम् । अव् इ-उष्टाः । इत् । नु । भूयसीः । उषसः । आ । नः । जीवान् । वरुण । तासु । शाधि

2.28.10

यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह । स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान्

2.28.11

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरि-दाव्नः । आ । विदम् । शूनम् । आपेः । मा । रायः । राजन् । सु-यमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc