ऋग्वेदसंहिता, पदपाठ · अध्याय 2.27
॥5॥.
-र्व्_2:7।6-
(र्व्_2,27)
इमाः । गिरः । आदित्येभ्यः । घृत-स्नूः । सनात् । राज-भ्यः । जुह्वा । जुहोमि । शृणोतु । मित्रः । अर्यमा । भगः । नः । तुवि-जातः । वरुणः । दक्षः । अंशः
इमम् । स्तोमम् । स-क्रतवः । मे । अद्य । मित्रः । अर्यमा । वरुणः । जुषन्त । आदित्यासः । शुचयः । धार-पूताः । अवृजिनाः । अनवद्याः । अरिष्टाः
ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरि-अक्षाः । अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राज-भ्यः । परमा । चित् । अन्ति
धारयन्तः । आदित्यासः । जगत् । स्थाः । देवाः । विश्वस्य । भुवनस्य । गोपाः । दीर्घ-धियः । रक्षमाणाः । असुर्यम् । ऋत-वानः । चयमानाः । ऋणानि
विद्याम् । आदित्याः । अवसः । वः । अस्य । यत् । अर्यमन् । भये । आ । चित् । मयः-भु । युष्माकम् । मित्रावरुणा । प्र-नीतौ । परि । श्वभ्राइव । दुः-इतानि । वृज्याम्
॥6॥.
-र्व्_2:7।7-
सु-गः । हि । वः । अर्यमन् । मित्र । पन्थाः । अनृक्षरः । वरुण । साधुः । अस्त् इ । तेन । आदित्याः । अधि । वोचत । नः । यच्छत । नः । दुः-परिहन्तु । शर्म
पिपर्तु । नः । अदितिः । राज-पुत्रा । अति । द्वेषांसि । अर्यमा । सु-गेभिः । बृहत् । म् इत्रस्य । वरुणस्य । शर्म । उप । स्याम । पुरु-वीराः । अरिष्टाः
तिस्रः । भूमीः । धारयन् । त्रीन् । उत । द्यून् । त्रीणि । व्रता । विदथे । अन्तः । एषाम् । ऋतेन । आदित्याः । महि । वः । महि-त्वम् । तत् । अर्यमन् । वरुण । मित्र । चारु
त्री । रोचना । दिव्या । धारयन्त । हिरण्ययाः । शुचयः । धार-पूताः । अस्वप्न्-अजः । अनि-मिषाः । अदब्धाः । उरु-शंसाः । ऋजवे । मर्त्याय
त्वम् । विश्वेषाम् । वरुण । असि । राजा । ये । च । देवाः । असुर । ये । च । मर्ताः । शतम् । नः । रास्व । शरदः । वि-चक्षे । अश्याम । आयूंषि । सुधितानि । पूर्वा
॥7॥.
-र्व्_2:7।8-
न । दक्षिणा । वि । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्चा । पाक्या । चित् । वसवः । धीर्या । चित् । युष्मानीतः । अभयम् । ज्योतिः । अश्याम्
यः । राज-भ्यः । ऋतनि-भ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । न् इत्याः । सः । रेवान् । याति । प्रथमः । रथेन । वसु-दावा । विदथेषु । प्र-शस्तः
शुचिः । अपः । सु-यवसाः । अदब्धः । उप । क्षेति । वृद्ध-वयाः । सु-वीरः । नकिः । तम् । घ्नन्ति । अन्तितः । न । दूरात् । यः । आदित्यानाम् । भवति । प्र-नीतौ
अदिते । मित्र । वरुण । उत । मृळ । यत् । वः । वयम् । चकृम । कत् । चित् । आगः । उरु । अश्याम् । अभयम् । ज्योतिः । इन्द्र । मा । नः । दीर्घाः । अभि । नशन् । तमिस्राः
उभे इति । अस्मै । पीपयतः । समीची इतिसम्-ईची । दिवः । वृष्टिम् । सु-भगः । नाम । पुष्यन् । उभा । क्षयौ । आजयन् । याति । पृत्-सु । उभौ । अर्धौ । भवतः । साधू इति । अस्मै
याः । वः । मायाः । अभि-द्रुहे । यजत्राः । पाशाः । आदित्याः । रिपवे । वि-चृत्ताः । अश्वी-इव । तान् । अति । येषम् । रथेन । अरिष्टाः । उरौ । आ । शर्मन् । स्याम
मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरि-दाव्नः । आ । विदम् । शूनम् । आपेः । मा । रायः । राजन् । सु-यमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0