ऋग्वेदसंहिता, पदपाठ · अध्याय 2.26
॥4॥.
-र्व्_2:7।5-
(र्व्_2,26)
ऋजुः । इत् । शंसः । वनवत् । वनुष्यतः । देवयन् । इत् । अदेव-यन्तम् । अभि । असत् । सुप्र-अवीः । इत् । वनवत् । पृत्-सु । दुस्तरम् । यज्वा । इत् । अयज्योः । वि । भजाति । भोजनम्
यजस्व । वीर । प्र । विहि । मनायतः । भद्रम् । मनः । कृणुष्व । वृत्र-तूर्ये । हविः । कृणुष्व । सु-भगः । यथा । अससि । ब्रह्मणः । पतेः । अवः । आ । वृणीमहे
सः । इत् । जनेन । सः । विशा । सः । जन्मना । सः । पुत्रैः । वाजम् । भरते । धना । नृ-भिः । देवानाम् । यः । पितरम् । आविवासति । श्रद्धामनाः । हविषा । ब्रह्मणः । पतिम्
यः । अस्मै । हव्यैः । घृतवत्-भिः । अविधत् । प्र । तम् । प्राचा । नयति । ब्रह्मणः । पतिः । उरुष्यतीम् । अंहसः । रक्षति । रिषः । अंहोः । चित् । अस्मै । उरु-चक्रिः । अद्भुतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0