भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.25

2.25.1

॥3॥.
-र्व्_2:7।4-
(र्व्_2,25)
इन्धानः । अग्निम् । वनवत् । वनुष्यतः । कृत-ब्रह्मा । शूशुवत् । रात-हव्यः । इत् । जातेन । जातम् । अति । सः । प्र । सर्सृते । यम्-यम् । युजम् । कृणुते । ब्रह्मणः । पतिः

2.25.2

वीरेभिः । वीरान् । वनवत् । वनुष्यतः । गोभिः । रयिम् । पप्रथत् । बोधति । त्मना । तोकम् । च । तस्य । तनयम् । च । वर्धते । यम्-यम् । युजम् । कृणुते । ब्रह्मणः । पतिः

2.25.3

सिन्धुः । न । क्षोदः । शिमी-वान् । ऋघायतः । वृषाइव । वध्रीन् । अभि । वष्टि । ओजसा । अग्नेः-इव । प्र-सितिः । न । अह । वर्तवे । यम्-यम् । युजम् । कृणुते । ब्रह्मणः । पतिः

2.25.4

तस्मै । अर्षन्ति । दिव्याः । असश्चतः । सः । सत्व-भिः । प्रथमः । गोषु । गच्छति । अनिभृष्ट-तविषिः । हन्ति । ओजसा । यम्-यम् । युजम् । कृणुते । ब्रह्मणः । पतिः

2.25.5

तस्मै । इत् । विश्वे । धुनयन्त । सिन्धवः । अच्छिद्रा । शर्म । दधिरे । पुरूणि । देवानाम् । सुम्ने । सु-भगः । सः । एधते । यम्-यम् । युजम् । कृणुते । ब्रह्मणः । पतिः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc