भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.24

2.24.1

॥32॥.
-र्व्_2:7।1-
(र्व्_2,24)
सः । इमाम् । अविड्ढि । प्र-भृतिम् । यः । ईशिषे । अया । विधेम । नवया । महा । गिरा । यथा । नः । मीढवान् । स्तवते । सखा । तव । बृहस्पते । सीसधः । सः । उत । नः । मतिम्

2.24.2

यः । नन्त्वानि । अनमत् । नि । ओजसा । उत । अदर्दः । मन्युना । शम्बराणि । वि । प्र । अच्यवयत् । अच्युता । ब्रह्मणः । पतिः । आ । च । अविशत् । वसु-मन्तम् । व् इ । पर्वतम्

2.24.3

तत् । देवानाम् । देव-तमाय । कर्त्वम् । अश्रथ्नान् । दृळ्हा । अव्रदन्त । वीळिता । उत् । गाः । आजत् । अभिनत् । ब्रह्मणा । वलम् । अगूहत् । तमः । वि । अचक्षयत् । स्वर् इतिस्वः

2.24.4

अश्म-आस्यम् । अवतम् । ब्रह्मणः । पतिः । मधु-धारम् । अभि । यम् । ओजसा । अतृणत् । तम् । एव । विश्वे । पपिरे । स्वः-दृशः । बहु । साकम् । सिसिचुः । उत्सम् । उद्रिणम्

2.24.5

सना । ता । का । चित् । भुवना । भवीत्वा । मात्-भिः । शरत्-भिः । दुरः । वरन्त । वः । अयतन्ता । चरतः । अन्यत्-अन्यत् । इत् । या । चकार । वयुना । ब्रह्मणः । पतिः

2.24.6

॥1॥.
-र्व्_2:7।2-
अभि-नक्षन्तः । अभि । ये । तम् । आनशुः । निधिम् । पणीनाम् । परमम् । गुहा । हितम् । ते । विद्वांसः । प्रति-चक्ष्य । अनृता । पुनः । यतः । ओं इति । आयन् । तत् । उत् । ईयुः । आविशम्

2.24.7

ऋत-वानः । प्रति-चक्ष्य । अनृता । पुनः । आ । अतः । आ । तस्थुः । कवयः । महः । पथः । ते । बाहु-भ्याम् । धमितम् । अग्निम् । अस्मनि । नकिः । सः । अस्ति । अरणः । जुहुः । हि । तम्

2.24.8

ऋत-ज्येन । क्षिप्रेण । ब्रह्मणः । पतिः । यत्र । वष्टि । प्र । तर् । अश्नोति । धन्वना । तस्य । साध्वीः । इषवः । याभिः । अस्यति । नृ-चक्षसः । दृशये । कर्ण-योनयः

2.24.9

सः । सम्-नयः । सः । वि-नयः । पुरः-हितः । सः । सु-स्तुतः । सः । युधि । ब्रह्मणः । पतिः । चाक्ष्मः । यत् । वाजम् । भरते । मती । धना । आत् । इत् । सूर्यः । तपति । तप्यतुः । वृथा

2.24.10

वि-भु । प्र-भु । प्रथमम् । मेहनावतः । बृहस्पतेः । सु-विदत्राणि । राध्या । इमा । सातानि । वेन्यस्य । वाजिनः । येन । जनाः । उभये । भुञ्जते । विशः

2.24.11

॥2॥.
-र्व्_2:7।3-
यः । अवरे । वृजने । विश्व-था । वि-भुः महाम् । ओं इति । रण्वः । शवसा । ववक्षिथ । सः । देवः । देवान् । प्रति । पप्रथे । पृथु । विश्वा । इत् । ओं इति । ता । परि-भूः । ब्रह्मणः । पतिः

2.24.12

विश्वम् । सत्यम् । मघ-वाना । युवोः । इत् । आपः । चन । प्र । मिनन्ति । व्रतम् । वाम् । अच्छ । इन्द्राब्रह्मणस्पती इति । हविः । नः । अन्नम् । युजाइव । वाजिना । जिगातम्

2.24.13

उत । आशिष्ठाः । अनु । शृण्वन्ति । वह्नयः । सभेयः । विप्रः । भरते । मती । धना । वीळु-द्वेषाः । अनु । वशा । ऋणम् । आददिः । सः । ह । वाजी । सम्-इथे । ब्रह्मणः । पतिः

2.24.14

ब्रह्मणः । पतेः । अभवत् । यथावशम् । सत्यः । मन्युः । महि । कर्म । करिष्यतः । यः । गाः । उत्-आजत् । सः । दिवे । वि । च । अभजत् । मही-इव । रीतिः । शवसा । असरत् । पृथक्

2.24.15

ब्रह्मणः । पते । सु-यमस्य । विश्वहा । रायः । स्याम । रथ्यः । वयस्वतः । वीरेषु । वीरान् । उप । पृङ्धि । नः । त्वम् । यत् । ईशानः । ब्रह्मणा । वेषि । मे । हवम्

2.24.16

ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सु-उक्तस्य । बोधि । तनयम् । च । जिन्व । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc