ऋग्वेदसंहिता, पदपाठ · अध्याय 2.23
॥28॥.
-र्व्_2:6।29-
(र्व्_2,23)
गणानाम् । त्वा । गण-पतिम् । हवामहे । कविम् । कवीनाम् । उपमश्रवः-तमम् । ज्येष्ठ-राजम् । ब्रह्मणाम् । ब्रह्मणः । पते । आ । नः । शृण्वन् । ऊति-भिः । सीद । सादनम्
देवाः । चित् । ते । असुर्य । प्र-चेतसः । बृहस्पते । यज्ञियम् । भागम् । आनशुः । उस्राः-इव । सूर्यः । ज्योतिषा । महः । विश्वेषाम् । इत् । जनिता । ब्रह्मणाम् । असि
आ । वि-बाध्य । परि-रपः । तमांसि । च । ज्योतिष्मन्तम् । रथम् । ऋतस्य । तिष्ठसि । बृहस्पते । भीमम् । अमित्र-दम्भनम् । रक्षः-हनम् । गोत्र-भिदम् । स्वः-विदम्
सुनीति-भिः । नयसि । त्रायसे । जनम् । यः । तुभ्यम् । दाशात् । न । तम् । अंहः । अश्नवत् । ब्रह्म-द्विषः । तपनः । मन्यु-मीः । असि । बृहस्पते । महि । तत् । ते । महि-त्वनम्
न । तम् । अंहः । न । दुः-इतम् । कुतः । चन । न । अरातयः । तितिरुः । न । द्वयाविनः । विश्वाः । इत् । अस्मात् । ध्वरसः । वि । बाधसे । यम् । सु-गोपाः । रक्षसि । ब्रह्मणः । पते
॥29॥.
-र्व्_2:6।30-
त्वम् । नः । गो--पाः । पथि-कृत् । वि-चक्षणः । तव । व्रताय । मति-भिः । जरामहे । बृहस्पते । यः । नः । अभि । ह्वरः । दधे । स्वा । तम् । मर्मर्तु । दुच्छुना । हरस्वती
उत । वा । यः । नः । मर्चयात् । अनागसः । अराती-वा । मर्तः । सानुकः । वृकः । बृहस्पते । अप । तम् । वर्तय । पथः । सु-गम् । नः । अस्यै । देव-वीतये । कृधि
त्रातारम् । त्वा । तनूनाम् । हवामहे । अव-स्पर्तः । अधि-वक्तारम् । अस्मयुम् । बृहस्पते । देव-निदः । नि । बर्हय । मा । दुः-एवाः । उत्-तरम् । सुम्नम् । उत् । नशन्
त्वया । वयम् । सु-वृधा । ब्रह्मणः । पते । स्पार्हा । वसु । मनुष्या । आ । ददीमहि । याः । नः । दूरे । तळितः । याः । अरातयः । अभि । सन्ति । जम्भय । ताः । अनप्नसः
त्वया । वयम् । उत्-तमम् । धीमहे । वयः । बृहस्पते । पप्रिणा । सस्निना । युजा । मा । नः । दुः-शंसः । अभि-दिप्सुः । ईशत । प्र । सु-शंसाः । मति-भिः । तारिषीमहि
॥30॥.
-र्व्_2:6।31-
अननु-दः । वृषभः । जग्मिः । आहवम् । निः-तप्ता । शत्रुम् । पृतनासु । ससहिः । असि । सत्यः । ऋण-याः । ब्रह्मणः । पते । उग्रस्य । चित् । दमिता । वीळु-हर्षिणः
अदेवेव । मनसा । यः । रिषण्यति । शासाम् । उग्रः । मयमानः । जिघांसति । बृहस्पते । मा । प्रणक् । तस्य । नः । वधः । नि । कर्म । मन्युम् । दुः-एवस्य । शर्धतः
भरेषु । हव्य । नमसा । उप-सद्यः । गन्ता । वाजेषु । सनिता । धनम्-धनम् । विश्वाः । इत् । अर्यः । अभि-दिप्स्वः । मृधः । बृहस्पतिः । वि । ववर्ह । रथान्-इव
तेजिष्ठया । तपनी । रक्षसः । तप । ये । त्वा । निदे । दधिरे । दृष्ट-वीर्यम् । आविः । तत् । कृष्व । यत् । असत् । ते । उक्थ्यम् । बृहस्पते । वि । परि-रपः । अर्दय
बृहस्पते । अति । यत् । अर्यः । अर्हात् । द्यु-मत् । वि-भाति । क्रतु-मत् । जनेषु । यत् । दीदयत् । शवसा । ऋत-प्रजात । तत् । अस्मासु । द्रविणम् । धेहि । चित्रम्
॥31॥.
-र्व्_2:6।32-
मा । नः । स्तेनेभ्यः । ये । अभि । द्रुहः । पदे । निरामिणः । रिपवः । अन्नेषु । जगृधुः । आ । देवानाम् । ओहते । वि । व्रयः । हृदि । बृहस्पते । न । परः । साम्नः । विदुः
विश्वेभ्यः । हि । त्वा । भुवनेभ्यः । परि । त्वष्टा । अजनत् । साम्नः-साम्नः । कविः । सः । ऋण-चित् । ऋण-याः । ब्रह्मणः । पतिः । द्रुहः । हन्ता । महः । ऋतस्य । धर्तरि
तव । श्रिये । वि । अजिहीत । पर्वतः । गवाम् । गोत्रम् । उत् । असृजः । यत् । अङ्गिरः । इन्द्रेण । युजा । तमसा । परि-वृतम् । बृहस्पते । निः । अपाम् । औब्जः । अर्णवम्
ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सु-उक्तस्य । बोधि । तनयम् । च । जिन्व । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0