ऋग्वेदसंहिता, पदपाठ · अध्याय 2.22
॥27॥.
-र्व्_2:6।28-
(र्व्_2,22)
त्रि-कद्रुकेषु । महिषः । यव-आशिरम् । तुवि-शुष्मः । तृपत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः
अध । त्विषि-मान् । अभि । ओजसा । क्रिविम् । युधा । अभवत् । आ । रोदसी इति । अपृणत् । अस्य । मज्मना । प्र । ववृधे । अधत्त । अन्यम् । जठरे । प्र । ईम् । अरिच्यत । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः
साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । ससहिः । मृधः । विचर्षणिः । दाता । राधः । स्तुवते । काम्यम् । वसु । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः
तव । त्यत् । नर्यम् । नृतः । अप । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्र-वाच्यम् । कृतम् । यत् । देवस्य । शवसा । प्र । अरिणा । असुम् । रिणन् । अपः । भुवत् । विश्वम् । अभि । अदेवम् । ओजसा । विदात् । ऊर्जम् । शत-क्रतुः । विदात् । इषम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0