भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.21

2.21.1

॥26॥.
-र्व्_2:6।27-
(र्व्_2,21)
विश्व-जिते । धन-जिते । स्वः-जिते । सत्राजिते । नृ-जिते । उर्वराजिते । अश्व-ज् इते । गो--जिते । अप्-जिते । भर । इन्द्राय । सोमम् । यजताय । हर्यतम्

2.21.2

अभि-भुवे । अभि-भङ्गाय । वन्वते । अषाळ्हाय । सहमानाय । वेधसे । तुवि-ग्रये । वह्नये । दुस्तरीतवे । सत्रासहे । नमः । इन्द्राय । वोचत

2.21.3

सत्रासहः । जन-भक्षः । जनम्-सहः । च्यवनः । युध्मः । अनु । जोषम् । क्षितः । वृतम्-चयः । सहुरिः । विक्षु । आरितः । इन्द्रस्य । वोचम् । प्र । कृतानि । वीर्या

2.21.4

अननु-दः । वृषभः । दोधतः । वधः । गम्भीरः । ऋष्वः । असमष्ट-काव्यः । रध्र-चोदः । श्नथनः । वीळितः । पृथुः । इन्द्रः । सु-यज्ञः । उषसः । स्वः । जनत्

2.21.5

यज्ञेन । गातुम् । अप्तुरः । विविद्रिरे । धियः । हिन्वानाः । उशिजः । मनीषिणः । अभि-स्वरा । नि-सदा । गाः । अवस्यवः । इन्द्रे । हिन्वानाः । द्रविणानि । आशत

2.21.6

इन्द्र । श्रेष्ठानि । द्रविणानि । धेहि । चित्तिम् । दक्षस्य । सु-भगत्वम् । अस्मे इति । पोषम् । रयीणाम् । अरिष्टिम् । तनूनाम् । स्वाद्मानम् । वाचः । सुदिन-त्वम् । अह्नाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc