ऋग्वेदसंहिता, पदपाठ · अध्याय 2.1
॥16॥.
मन्दल 2
-र्व्_2:5।17-
(र्व्_2,1)
त्वम् । अग्ने । द्यु-भिः । त्वम् । आशुशुक्षणिः । त्वम् । अत्-भ्यः । त्वम् । अश्मनः । परि । त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृ-पते । जायसे । शुचिः
तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋत-यतः । तव । प्र-शास्त्रम् । त्वम् । अध्वरि-यसि । ब्रह्मा । च । असि । गृठ-पतिः । च । नः । दमे
त्वम् । अग्ने । इन्द्रः । वृषभः । सताम् । असि । त्वम् । विष्णुः । उरु-गायः । नमस्यः । त्वम् । ब्रह्मा । रयि-वित् । ब्रह्मणः । पते । त्वम् । विधर्तरितिवि-धर्तः । सचसे । पुरम्-ध्या
त्वम् । अग्ने । राजा । वरुणः । धृत-व्रतः । त्वम् । मित्रः । भवसि । दस्मः । ईड्यः । त्वम् । अर्यमा । सत्-पतिः । यस्य । सम्-भुजम् । त्वम् । अंशः । विदथे । देव । भाजयुः
त्वम् । अग्ने । त्वष्टा । विधते । सु-वीर्यम् । तव । ग्नावः । मित्र-महः । स-जात्यम् । त्वम् । आशु-हेमा । ररिषे । सु-अश्व्यम् । त्वम् । नराम् । शर्धः । असि । पुरु-वसुः
॥17॥.
-र्व्_2:5।18-
त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे । त्वम् । वातैः । अरुणैः । यासि । शम्-गयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना
त्वम् । अग्ने । द्रविणः-दाः । अरम्-कृते । त्वम् । देवः । सविता । रत्न-धाः । असि । त्वम् । भगः । नृ-पते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत्
त्वाम् । अग्ने । दमे । आ । विश्पतिम् । विशः । त्वाम् । राजानम् । सु-विदत्रम् । ऋञ्जते । त्वम् । विश्वानि । सु-अनीक । पत्यसे । त्वम् । सहस्राणि । शता । दश । प्रति
त्वाम् । अग्ने । पितरम् । इष्टि-भिः । नरः । त्वाम् । भ्रात्राय । शम्या । तनू-रुचम् । त्वम् । पुत्रः । भवसि । यः । ते । अविधत् । त्वम् । सखा । सु-शेवः । पासि । आधृषः
त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षु-मतः । रायः । ईशिषे । त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । वि-शिक्षुः । असि । यज्ञम् । आतनिः
॥18॥.
-र्व्_2:5।19-
त्वम् । अग्ने । अदितिः । देव । दाशुषे । त्वम् । होत्रा । भारती । वर्धसे । गिरा । त्वम् । इळा । शत-हिमा । असि । दक्षसे । त्वम् । वृत्र-हा । वसु-पते । सरस्वती
त्वम् । अग्ने । सु-भृतः । उत्-तमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्-दृशि । श्रियः । त्वम् । वाजः । प्र-तरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः
त्वाम् । अग्ने । आदित्यासः । आस्यम् । त्वाम् । जिह्वाम् । शुचयः । चक्रिरे । कवे । त्वाम् । राति-साचः । अध्वरेषु । सश्चिरे । त्वे इति । देवाः । हविः । अदन्ति । आहुतम्
त्वे इति । अग्ने । विश्वे । अमृतासः । अद्रुहः । आसा । देवाः । हविः । अदन्ति । आहुतम् । त्वया । मर्तासः । स्वदन्ते । आसुतिम् । त्वम् । गर्भः । वीरुधाम् । जज्ञिषे । शुचिः
त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सु-जात । प्र । च । देव । रि च्यसे । पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति
ये । स्तोतृ-भ्यः । गो--अग्राम् । अश्व-पेशसम् । अग्ने । रातिम् । उप-सृजन्ति । सूरयः । अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0