ऋग्वेदसंहिता, पदपाठ · अध्याय 2.17
॥18॥.
-र्व्_2:6।19-
(र्व्_2,17)
तत् । अस्मै । नव्यम् । अङ्गिरस्वत् । अर्चत । शुष्माः । यत् । अस्य । प्रत्न-था । उत्-ईरते । विश्वा । यत् । गोत्रा । सहसा । परि-वृता । मदे । सोमस्य । दृंहितानि । ऐरयत्
सः । भूतु । यः । ह । प्रथमाय । धायसे । ओजः । मिमानः । महिमानम् । आ । अत् इरत् । शूरः । यः । युत्-सु । तन्वम् । परि-व्यत । शीर्षणि । द्याम् । महिना । प्रति । अमुञ्चत
अध । अकृणोः । प्रथमम् । वीर्यम् । महत् । यत् । अस्य । अग्रे । ब्रह्मणा । शुष्मम् । ऐरयः । रथे--स्थेन । हरि-अश्वेन । वि-च्युताः । प्र । जीरयः । सिस्रते । सध्र्यक् । पृथक्
अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशान-कृत् । प्र-वयाः । अभि । अवर्धत । आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत्
सः । प्राचीनान् । पर्वतान् । दृंहत् । ओजसा । अधराचीनम् । अकृणोत् । अपाम् । अपः । अधारयत् । पृथिवीम् । विश्व-धायसम् । अस्तभ्नात् । मायया । द्याम् । अव-स्रसः
॥19॥.
-र्व्_2:6।20-
सः । अस्मै । अरम् । बाहु-भ्याम् । यम् । पिता । अकृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि । येन । पृथिव्याम् । नि । क्रिविम् । शयध्यै । वज्रेण । हत्वी । अवृणक् । तुवि-स्वनिः
अमाजूः-इव । पित्रोः । सचा । सती । समानात् । आ । सदसः । त्वाम् । इये । भगम् । कृध् इ । प्र-केतम् । उप । मासि । आ । भर । दद्धि । भागम् । तन्वः । येन । ममहः
भोजम् । त्वाम् । इन्द्र । वयम् । हुवेम । ददिः । त्वम् । इन्द्र । अपांसि । वाजान् । अवि ड्ढि । इन्द्र । चित्रया । नः । ऊती । कृधि । वृषन् । इन्द्र । वस्यसः । नः
नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृ-भ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0