ऋग्वेदसंहिता, पदपाठ · अध्याय 2.16
॥16॥.
-र्व्_2:6।17-
(र्व्_2,16)
प्र । वः । सताम् । ज्येष्ठतमाय । सु-स्तुतिम् । अग्नौ-इव । सम्-इधाने । हविः । भरे । इन्द्रम् । अजुर्यम् । जरयन्तम् । उक्षितम् । सनात् । युवानम् । अवसे । हवामहे
यस्मात् । इन्द्रात् । बृहतः । किम् । चन । ईम् । ऋते । विश्वानि । अस्मिन् । सम्-भृता । अधि । वीर्या । जठरे । सोमम् । तन्वि । सहः । महः । हस्ते । वज्रम् । भरति । शीर्षणि । क्रतुम्
न । क्षोणीभ्याम् । परि-भ्वे । ते । इन्द्रियम् । न । समुद्रैः । पर्वतैः । इन्द्र । ते । रथः । न । ते । वज्रम् । अनु । अश्नोति । कः । चन । यत् । आशु-भिः । पतसि । योजना । पुरु
विश्वे । हि । अस्मै । यजताय । धृष्णवे । क्रतुम् । भरन्ति । वृषभाय । सश्चते । वृषा । यजस्व । हविषा । विदुः-तरः । पिब । इन्द्र । सोमम् । वृषभेण । भानुना
वृष्णः । कोशः । पवते । मध्वः । ऊर्मिः । वृषभ-अन्नाय । वृषभाय । पातवे । वृषणा । अध्वर्यू इति । वृषभासः । अद्रयः । वृषणम् । सोमम् । वृषभाय । सुस्वति
॥17॥.
-र्व्_2:6।18-
वृषा । ते । वज्रः । उत । ते । वृषा । रथः । वृषणा । हरी इति । वृषभाणि । आयुधा । वृष्णः । मदस्य । वृषभ । त्वम् । ईशिषे । इन्द्र । सोमस्य । वृषभस्य । तृप्णुहि
प्र । ते । नावम् । न । समने । वचस्युवम् । ब्रह्मणा । यामि । सवनेषु । दधृषिः । कुवित् । नः । अस्य । वचसः । नि-बोधिषत् । इन्द्रम् । उत्सम् । न । वसुनः । सिचामहे
पुरा । सम्-बाधात् । अभि । आ । ववृत्स्व । नः । धेनुः । न । वत्सम् । यवसस्य । पिप्युषी । सकृत् । सु । ते । सुमति-भिः । शतक्रतो इतिशत-क्रतो । सम् । पत्नीभिः । न । वृषणः । नसीमहि
नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृ-भ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0