ऋग्वेदसंहिता, पदपाठ · अध्याय 2.18
॥20॥.
-र्व्_2:6।21-
(र्व्_2,18)
प्रातरिति । रथः । नवः । योजि । सस्निः । चतुः-युगः । त्रि-कशः । सप्त-रश्मिः । दश-अरित्रः । मनुष्यः । स्वः-साः । सः । इष्टि-भिः । मति-भिः । रंह्यः । भूत्
सः । अस्मै । अरम् । प्रथमम् । सः । द्वितीयम् । उतो इति । तृतीयम् । मनुषः । सः । होता । अन्यस्याः । गर्भम् । अन्ये । ओं इति । जनन्त । सः । अन्येभिः । सचते । जेन्यः । वृषा
हरी इति । नु । कम् । रथे । इन्द्रस्य । योजम् । आयै । सूक्तेन । वचसा । नवेन । मो इति । सु । त्वाम् । अत्र । बहवः । हि । विप्राः । नि । रीरमन् । यजमानासः । अन्ये
आ । द्वाभ्याम् । हरि-भ्याम् । इन्द्र । याहि । आ । चतुः-भिः । आ । षट्-भिः । हूयमानः । आ । अष्टाभिः । दश-भिः । सोम-पेयम् । अयम् । सुतः । सु-मख । मा । मृधः । करितिकः
आ । विंशत्या । त्रिंशता । याहि । अर्वाङ् । आ । चत्वारिंशता । हरि-भिः । युजानः । आ । पञ्चाशता । सु-रथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोम-पेयम्
॥21॥.
-र्व्_2:6।22-
आ । अशीत्या । नवत्या । याहि । अर्वाङ् । आ । शतेन । हरि-भिः । उह्यमानः । अयम् । ह् इ । ते । शुन-होत्रेषु । सोमः । इन्द्र । त्वाया । परि-सिक्तः । मदाय
मम । ब्रह्म । इन्द्र । याहि । अच्छ । विश्वा । हरी इति । धुरि । धिष्व । रथस्य । पुरु-त्रा । हि । वि-हव्यः । बभूथ । अस्मिन् । शूर । सवने । मादयस्व
न । मे । इन्द्रेण । सख्यम् । वि । योषत् । अस्मभ्यम् । अस्य । दक्षिणा । दुहीत । उप । ज्येष्ठे । वरूथे । गभस्तौ । प्राये--प्राये । जिगीवांसः । स्याम
नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृ-भ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0