भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.15

2.15.1

॥14॥.
-र्व्_2:6।15-
(र्व्_2,15)
प्र । घ । नु । अस्य । महतः । महानि । सत्या । सत्यस्य । करणानि । वोचम् । त्र् इ-कद्रुकेषु । अपिबत् । सुतस्य । अस्य । मदे । अहिम् । इन्द्रः । जघान

2.15.2

अवंशे । द्याम् । अस्तभायत् । बृहन्तम् । आ । रोदसी इति । अपृणत् । अन्तरिक्षम् । सः । धारयत् । पृथिवीम् । पप्रथत् । च । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.3

सद्म-इव । प्राचः । वि । मिमाय । मानैः । वज्रेण । खानि । अतृणत् । नदीनाम् । वृथा । असृजत् । पथि-भिः । दीर्घ-याथैः । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.4

सः । प्र-वोळ्हृन् । परि-गत्य । दभीतेः । विश्वम् । अधाक् । आयुधम् । इद्धे । अग्नौ । सम् । गोभिः । अश्वैः । असृजत् । रथेभिः । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.5

सः । ईम् । महीम् । धुनिम् । एतोः । अरम्णात् । सः । अस्नातॄन् । अपारयत् । स्वस्ति । ते । उत्-स्नाय । रयिम् । अभि । प्र । तस्थुः । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.6

॥15॥.
-र्व्_2:6।16-
सः । उदञ्चम् । सिन्धुम् । अरिणात् । महित्वा । वज्रेण । अनः । उषसः । सम् । पिपेष । अजवसः । जविनीभिः । वि-वृश्चन् । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.7

सः । विद्वान् । अप-गोहम् । कनीनाम् । आविः । भवन् । उत् । अतिष्ठत् । परावृक् । प्रति । श्रोणः । स्थात् । वि । अनक् । अचष्ट । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.8

भिनत् । वलम् । अङ्गिरः-भिः । गृणानः । वि । पर्वतस्य । दृंहितानि । ऐरत् । रिणक् । रोधांसि । कृत्रिमाणि । एषाम् । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.9

स्वप्नेन । अभि-उप्य । चुमुरिम् । धुनिम् । च । जघन्थ । दस्युम् । प्र । दभीतिम् । आवः । रम्भी । चित् । अत्र । विविदे । हिरण्यम् । सोमस्य । ता । मदे । इन्द्रः । चकार

2.15.10

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृ-भ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc