ऋग्वेदसंहिता, पदपाठ · अध्याय 2.14
॥12॥.
-र्व्_2:6।13-
(र्व्_2,14)
अध्वर्यवः । भरत । इन्द्राय । सोमम् । आ । अमत्रेभिः । सिञ्चत । मद्यम् । अन्धः । कामी । हि । वीरः । सदम् । अस्य । पीतिम् । जुहोत । वृष्णे । तत् । इत् । एषः । वष्ट् इ
अध्वर्यवः । यः । अपः । वव्रिवांसम् । वृत्रम् । जघान । अशन्याइव । वृक्षम् । तस्मै । एतम् । भरत । तत्-वशाय । एषः । इन्द्रः । अर्हति । पीतिम् । अस्य
अध्वर्यवः । यः । दृभीकम् । जघान । यः । गाः । उत्-आजत् । अप । हि । वलम् । वरितिवः । तस्मै । एतम् । अन्तरिक्षे । न । वातम् । इन्द्रम् । सोमैः । आ । ऊर्णुत । जूः । न । वस्त्रैः
अध्वर्यवः । यः । उरणम् । जघान । नव । चख्वांसम् । नवतिम् । च । बाहून् । यः । अर्बुदम् । अव । नीचा । बबाधे । तम् । इन्द्रम् । सोमस्य । भृथे । हिनोत
अध्वर्यवः । यः । सु । अश्नम् । जघान । यः । शुष्णम् । अशुषम् । यः । वि-अंसम् । यः । पिप्रुम् । नमुचिम् । यः । रुधि-क्राम् । तस्मै । इन्द्राय । अन्धसः । जुहोत
अध्वर्यवः । यः । शतम् । शम्बरस्य । पुरः । बिभेद । अश्मनाइव । पूर्वीः । यः । वर्चिनः । शतम् । इन्द्रः । सहस्रम् । अप-अवपत् । भरत । सोमम् । अस्मै
॥13॥.
-र्व्_2:6।14-
अध्वर्यवः । यः । शतम् । आ । सहस्रम् । भूम्याः । उप-स्थे । अवपत् । जघन्वान् । कुत्सस्य । आयोः । अतिथि-ग्वस्य । वीरान् । नि । अवृणक् । भरत । सोमम् । अस्मै
अध्वर्यवः । यत् । नरः । कामयाध्वे । श्रुष्टी । वहन्तः । नशथ । तत् । इन्द्रे । गभस्ति-पूतम् । भरत । श्रुताय । इन्द्राय । सोमम् । यज्यवः । जुहोत
अध्वर्यवः । कर्तन । श्रुष्टिम् । अस्मै । वने । नि-पूतम् । वने । उत् । नयध्वम् । जुषाणः । हस्त्यम् । अभि । वावशे । वः । इन्द्राय । सोमम् । मदिरम् । जुहोत
अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् । वेद । अहम् । अस्य । नि-भृतम् । मे । एतत् । दित्सन्तम् । भूयः । यजतः । चिकेत
अध्वर्यवः । यः । दिव्यस्य । वस्वः । यः । पार्थिवस्य । क्षम्यस्य । राजा । तम् । ऊर्दरम् । न । पृणत । यवेन । इन्द्रम् । सोमेभिः । तत् । अपः । वः । अस्तु
अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् । इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0