भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.13

2.13.1

॥9॥.
-र्व्_2:6।10-
(र्व्_2,13)
ऋतुः । जनित्री । तस्याः । अपः । परि । मक्षु । जातः । आ । अविशत् । यासु । वर्धते । तत् । आहनाः । अभवत् । पिप्युषी । पयः । अंशोः । पीयूषम् । प्रथमम् । तत् । उक्थ्यम्

2.13.2

सध्री । ईम् । आ । यन्ति । परि । बिभ्रतीः । पयः । विश्व-प्स्न्याय । प्र । भरन्त । भोजनम् । समानः । अध्वा । प्र-वताम् । अनु-स्यदे । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः

2.13.3

अनु । एकः । वदति । यत् । ददाति । तत् । रूपा । मिनन् । तत्-अपाः । एकः । ईयते । विश्वाः । एकस्य । वि-नुदः । तितिक्षते । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः

2.13.4

प्र-जाभ्यः । पुष्टिम् । वि-भजन्तः । आसते । रयिम्-इव । पृष्ठम् । प्र-भवन्तम् । आयते । असिन्वन् । दंष्ट्रैः । पितुः । अत्ति । भोजनम् । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः

2.13.5

अध । अकृणोः । पृथिवीम् । सम्-दृशे । दिवे । यः । धौतीनाम् । अहि-हन् । अरिणक् । पथः । तम् । त्वा । स्तोमेभिः । उद-भिः । न । वाजिनम् । देवम् । देवाः । अजनन् । सः । असि । उक्थ्यः

2.13.6

॥10॥.
-र्व्_2:6।11-
यः । भोजनम् । च । दयसे । च । वर्धनम् । आर्द्रात् । आ । शुष्कम् । मधु-मत् । दुदोहिथ । सः । शेवधिम् । नि । दधिषे । विवस्वति । विश्वस्य । एकः । ईशिषे । सः । असि । उक्थ्यः

2.13.7

यः । पुष्पिणीः । च । प्र-स्वः । च । धर्मणा । अधि । दाने । वि । अवनीः । अधारयः । यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः

2.13.8

यः । नार्मरम् । सह-वसुम् । नि-हन्तवे । पृक्षाय । च । दास-वेशाय । च । अवहः । ऊर्जयन्त्याः । अपरि-विष्टम् । आस्यम् । उत । एव । अद्य । पुरु-कृत् । सः । असि । उक्थ्यः

2.13.9

शतम् । वा । यस्य । दश । साकम् । आ । अद्यः । एकस्य । श्रुष्टौ । यत् । ह । चोदम् । आव् इथ । अरज्जौ । दस्यून् । सम् । उनप् । दभीतये । सुप्र-अव्यः । अभवः । सः । असि । उक्थ्यः

2.13.10

विश्वा । इत् । अनु । रोधनाः । अस्य । पैंस्यम् । ददुः । अस्मै । दधिरे । कृत्नवे । धनम् । षट् । अस्तभ्नाः । वि-स्तिरः । पञ्च । सम्-दृशः । परि । परः । अभवः । सः । असि । उक्थ्यः

2.13.11

॥11॥.
-र्व्_2:6।12-
सु-प्रवाचनम् । तव । वीर । वीर्यम् । यत् । एकेन । क्रतुना । विन्दसे । वसु । जातू-स्थिरस्य । प्र । वयः । सहस्वतः । या । चकर्थ । सः । इन्द्र । विश्वा । असि । उक्थ्यः

2.13.12

अरमयः । सर-अपसः । तराय । कम् । तुर्वीतये । च । वय्याय । च । स्रुतिम् । नीचा । सन्तम् । उत् । अनयः । परावृजम् । प्र । अन्धम् । श्रोणम् । श्रवयन् । सः । असि । उक्थ्यः

2.13.13

अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् । इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc