ऋग्वेदसंहिता, पदपाठ · अध्याय 2.12
॥6॥.
-र्व्_2:6।7-
(र्व्_2,12)
यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान् । क्रतुना । परि-अभूषत् । यस्य । शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । सः । जनासः । इन्द्रः
यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्र-कुपितान् । अरम्णात् । यः । अन्तरिक्षम् । वि-ममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः
यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्-आजत् । अप-धा । वलस्य । यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्-वृक् । समत्-सु । सः । जनासः । इन्द्रः
येन । इमा । विश्वा । च्यवना । कृतानि । यः । दासम् । वर्णम् । अधरम् । गुहा । अकर् इत्यकः । श्वघ्नी-इव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः
यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् । सः । अर्यः । पुष्टीः । विजः-इव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः
॥7॥.
-र्व्_2:6।8-
यः । रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः । युक्त-ग्राव्णः । यः । अविता । सु-शिप्रः । सुत-सोमस्य । सः । जनासः । इन्द्रः
यस्य । अश्वासः । प्र-दिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः । यः । सूर्यम् । यः । उषसम् । जजान । यः । अपाम् । नेता । सः । जनासः । इन्द्रः
यम् । क्रन्दसी इति । संयती इतिसम्-यती । विह्वयेतेइतिवि-ह्वयेते । परे । अवरे । उभयाः । अमित्राः । समानम् । चित् । रथम् । आतस्थि-वांसा । नाना । हवेतेइति । सः । जनासः । इन्द्रः
यस्मात् । न । ऋते । वि-जयन्ते । जनासः । यम् । युध्यमानाः । अवसे । हवन्ते । यः । विश्वस्य । प्रति-मानम् । बभूव । यः । अच्युत-च्युत् । सः । जनासः । इन्द्रः
यः । शश्वतः । महि । एनः । दधानान् । अमन्यमानान् । शर्वा । जघान । यः । शर्धते । न । अनु-ददाति । शृध्याम् । यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः
॥8॥.
-र्व्_2:6।9-
यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनु-अविन्दत् । ओजायमानम् । यः । अहिम् । जघान । दानुम् । शयानम् । सः । जनासः । इन्द्रः
यः । सप्त-रश्मिः । वृषभः । तुविष्मान् । अव-असृजत् । सर्तवे । सप्त । स् इन्धून् । यः । रौहिणम् । अस्फुरत् । वज्र-बाहुः । द्याम् । आरोहन्तम् । सः । जनासः । इन्द्रः
द्यावा । चित् । अस्मै । पृथिवी इति । नमेतेइति । शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते । यः । सोम-पाः । नि-चितः । वज्र-बाहुः । यः । वज्र-हस्तः । सः । जनासः । इन्द्रः
यः । सुन्वन्तम् । अवति । यः । पचन्तम् । यः । शंसन्तम् । यः । शशमानम् । ऊती । यस्य । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः । इन्द्रः
यः । सुन्वते । पचते । दुध्रः । आ । चित् । वाजम् । दर्दर्षि । सः । किल । असि । सत्यः । वयम् । ते । इन्द्र । विश्वह । प्रियासः । सु-वीरासः । विदथम् । आ । वदेम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0