ऋग्वेदसंहिता, पदपाठ · अध्याय 2.11
॥2॥.
-र्व्_2:6।3-
(र्व्_2,11)
श्रुधि । हवम् । इन्द्र । मा । रिषण्यः । स्याम । ते । दावने । वसूनाम् । इमाः । हि । त्वाम् । ऊर्जः । वर्धयन्ति । वसु-यवः । सिन्धवः । न । क्षरन्तः
सृजः । महीः । इन्द्र । याः । अपिन्वः । परि-स्थिताः । अहिना । शूर । पूर्वीः । अमर्त्यम् । चित् । दासम् । मन्यमानम् । अव । अभिनत् । उक्थैः । ववृधानः
उक्थेषु । इत् । नु । शूर । येषु । चाकन् । स्तोमेषु । इन्द्र । रुद्रियेषु । च । तुभ्य । इत् । एताः । यासु । मन्दसानः । प्र । वायवे । सिस्रते । न । शुभ्राः
शुभ्रम् । नु । ते । शुष्मम् । वर्धयन्तः । शुभ्रम् । वज्रम् । बाह्वोः । दधानाः । शुभ्रः । त्वम् । इन्द्र । ववृधानः । अस्मे इति । दासीः । विशः । सूर्येण । सह्याः
गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्सु । अपि-वृतम् । मायिनम् । क्षियन्तम् । उतो इति । अपः । द्याम् । तस्तभ्वांसम् । अहन् । अहिम् । शूर । वीर्येण
॥3॥.
-र्व्_2:6।4-
स्तव । नु । ते । इन्द्र । पूर्व्या । महानि । उत । स्तवाम । नूतना । कृतानि । स्तव । वज्रम् । बाह्वोः । उशन्तम् । स्तव । हरी इति । सूर्यस्य । केतू इति
हरी इति । नु । ते । इन्द्र । वाजयन्ता । घृत-श्चुतम् । स्वारम् । अस्वार्ष्टाम् । वि । समना । भूमिः । अप्रथिष्ट । अरंस्त । पर्वतः । चित् । सरिष्यन्
नि । पर्वतः । सादि । अप्र-युच्छन् । सम् । मातृ-भिः । वावशानः । अक्रान् । दूरे । पारे । वाणीम् । वर्धयन्तः । इन्द्र-इषिताम् । धमनिम् । पप्रथन् । नि
इन्द्रः । महाम् । सिन्धुम् । आशयानम् । मायाविनम् । वृत्रम् । अस्फुरत् । निः । अरेजेताम् । रोदसी इति । भियाने इति । कनिक्रदतः । वृष्णः । अस्य । वज्रात्
अरोरवीत् । वृष्णः । अस्य । वज्रः । अमानुषम् । यत् । मानुषः । नि-जूर्वात् । नि । मायिनः । दानवस्य । मायाः । अपादयत् । पपि-वान् । सुतस्य
॥4॥.
-र्व्_2:6।5-
पिब-पिब । इत् । इन्द्र । शूर । सोमम् । मन्दन्तु । त्वा । मन्दिनः । सुतासः । पृणन्तः । ते । कुक्षी इति । वर्धयन्तु । इत्था । सुतः । पौरः । इन्द्रम् । आव
त्वे इति । इन्द्र । अपि । अभूम । विप्राः । धियम् । वनेम । ऋत-या । सपन्तः । अवस्यवः । धीमहि । प्र-शस्तिम् । सद्यः । ते । रायः । दावने । स्याम
स्याम । ते । ते । इन्द्र । ये । ते । ऊती । अवस्यवः । ऊर्जम् । वर्धयन्तः । शुष्मिन्-तमम् । यम् । चाकनाम । देव । अस्मे इति । रयिम् । रासि । वीर-वन्तम्
रासि । क्षयम् । रासि । मित्रम् । अस्मे इति । रासि । शर्धः । इन्द्र । मारुतम् । नः । स-जोषसः । ये । च । मन्दसानाः । प्र । वायवः । पान्ति । अग्र-नीतिम्
व्यन्तु । इत् । नु । येषु । मन्दसानः । तृपत् । सोमम् । पाहि । द्रह्यत् । इन्द्र । अस्मान् । सु । पृत्-सु । आ । तरुत्र । अवर्धयः । द्याम् । बृहत्-भिः । अर्कैः
॥5॥.
-र्व्_2:6।6-
बृहन्तः । इत् । नु । ये । ते । तरुत्र । उक्थेभिः । वा । सुम्नम् । आविवासान् । स्तृणानासः । बर्हिः । पस्त्य-वत् । त्वाऊताः । इत् । इन्द्र । वाजम् । अग्मन्
उग्रेषु । इत् । नु । शूर । मन्दसानः । त्रि-कद्रुकेषु । पाहि । सोमम् । इन्द्र । प्र-दोधुवत् । श्मश्रुषु । प्रीणानः । याहि । हरि-भ्याम् । सुतस्य । पीतिम्
धिष्व । शवः । शूर । येन । वृत्रम् । अव-अभिनत् । दानुम् । और्ण-वाभम् । अप । अवृणोः । ज्योतिः । आर्याय । नि । सव्यतः । सादि । दस्युः । इन्द्र
सनेम । ये । ते । ऊति-भिः । तरन्तः । विश्वाः । स्पृधः । आर्येण । दस्यून् । अस्मभ्यम् । तत् । त्वाष्ट्रम् । विश्व-रूपम् । अरन्धयः । साख्यस्य । त्रिताय
अस्य । सुवानस्य । मन्दिनः । त्रितस्य । नि । अर्बुदम् । ववृधानः । अस्तरि त्यस्तः । अवर्तयत् । सूर्यः । न । चक्रम् । भिनत् । वलम् । इन्द्रः । अङ्गिरस्वान्
नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृ-भ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0