भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.191

1.191.1

॥13॥.
-र्व्_2:5।14-
(र्व्_1,191)
कङ्कतः । न । कङ्कतः । अथो इति । सतीन-कङ्कतः । द्वौ । इति । प्लुषी इति । इति । नि । अदृष्टाः । अलिप्सत

1.191.2

अदृष्टान् । हन्ति । आयती । अथो इति । हन्ति । परायती । अथो
इति । अव-घ्नती । हन्ति । अथो इति । पिनष्टि । पिंषती

1.191.3

शरासः । कुशरासः । दर्भासः । सैर्याः । उत । मौञ्जाः । अदृष्टाः । वैरिणाः । सर्वे । साकम् । नि । अलिप्सत

1.191.4

नि । गावः । गो--स्थे । असदन् । नि । मृगासः । अविक्षत । नि । केतवः । जनानाम् । नि । अदृष्टाः । अलिप्सत

1.191.5

एते । ओं इति । त्ये । प्रति । अदृश्रन् । प्र-दोषम् । तस्कराः-इव । अदृष्टाः । विश्व-दृश्टाः । प्रति-बुद्धाः । अभूतन

1.191.6

॥14॥.
-र्व्_2:5।15-
द्यौः । वः । पिता । पृथिवी । माता । सोमः । भ्राता । अदितिः । स्वसा । अदृष्टाः । विश्व-दृष्टाः । तिष्ठत । इलयत । सु । कम्

1.191.7

ये । अंस्याः । ये । अङ्ग्याः । सूचीकाः । ये । प्र-कङ्कताः । अदृष्टाः । किम् । चन । इह । वः । सर्वे । साकम् । नि । जस्यत

1.191.8

उत् । पुरस्तात् । सूर्यः । एति । विश्व-दृष्टः । अदृष्ट-हा । अदृष्टन् । सवार्न् । जम्भयन् । सर्वाः । च । यातु-धान्यः

1.191.9

उत् । अपप्तत् । असौ । सूर्यः । पुरु । विश्वानि । जूर्वन् । आदित्यः । पर्वतेभ्यः । विश्व-दृष्टः । अदृष्ट-हा

1.191.10

सूर्ये । विषम् । आ । सजामि । दृतिम् । सुरावतः । गृहे । सः । चित् । नु । न । मरात् इ । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरि-स्थाः । मधु । त्वा । मधुला । चकार

1.191.11

॥15॥.
-र्व्_2:5।16-
इयत्तिका । शकुन्तिका । सका । जघास । ते । विषम् । सो इति । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरि-स्थाः । मधु । त्वा । मधुला । चकार

1.191.12

त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् । ताः । चित् । नु । न । मरन्ति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरि-स्थाः । मधु । त्वा । मधुला । चकार

1.191.13

नवानाम् । नवतीनाम् । विषस्य । रोपुषीणाम् । सर्वासाम् । अग्रभम् । नाम । आरे । अस्य । योजनम् । हरि-स्थाः । मधु । त्वा । मधुला । चकार

1.191.14

त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः । अग्रुवः । ताः । ते । विषम् । वि । जभ्रिरे । उदकम् । कुम्भिनीः-इव

1.191.15

इयत्तकः । कुषुम्भकः । तकम् । भिनद्मि । अश्मना । ततः । विषम् । प्र । ववृते । पराचीः । अनु । सम्-वतः

1.191.16

कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्र-वर्तमानकः । वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc