ऋग्वेदसंहिता, पदपाठ · अध्याय 10.99
॥13॥.
-र्व्_8:5।14-
(र्व्_10,99)
कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथु-ग्मानम् । वाश्रम् । ववृधध्यै । कत् । तस्य । दातु । शवसः । वि-उष्टौ । तक्षत् । वज्रम् । वृत्र-तुरम् । अपिन्वत्
सः । हि । द्युता । वि-द्युता । वेति । साम । पृथुम् । योनिम् । असुर-त्वा । ससाद । सः । स-नीळेभिः । प्र-सहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः
सः । वाजम् । याता । अपदुः-पदा । यन् । स्वः-साता । परि । सदत् । सनिष्यन् । अनर्वा । यत् । शत-दुरस्य । वेदः । घ्नन् । शिश्न-देवान् । अभि । वर्पसा । भूत्
सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्र-धन्यासु । सस्रिः । अपादः । यत्र । युज्यासः । अरथाः । द्रोणि-अश्वासः । ईरते । घृतम् । वाः
सः । रुद्रेभिः । अशस्त-वारः । ऋभ्वा । हित्वी । गयम् । आरे--अवद्यः । आ । अगात् । वम्रस्य । मन्ये । मिथुना । विवव्री इतिवि-वव्री । अन्नम् । अभि-इत्य । अरोदयत् । मुषायन्
सः । इत् । दासम् । तुवि-रवम् । पतिः । दन् षट्--अक्षम् । त्रि-शीर्षाणम् । दमन्यत् । अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयः-अग्रया । हन्नितिहन्
॥14॥.
-र्व्_8:5।15-
सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् । सः । नृ-तमः । नहुषः । अस्मत् । सु-जातः । पुरः । अभिनत् । अर्हन् । दस्यु-हत्ये
सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति । उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयः-अपाष्टिः । हन्ति । दस्यून्
सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् । अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम्
अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी । अयम् । कनीनः । ऋतु-पाः । अवेदि । अमिमीत । अररुम् । यः । चतुः-पात्
अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः । सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत्
एव । महः । असुर । वक्षथाय । वम्रकः । पट्-भिः । उप । सर्पत् । इन्द्रम् । सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सु-क्षितिम् । विश्वम् । आ । अभार् इत्य् अभाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0