भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.98

10.98.1

॥11॥.
-र्व्_8:5।12-
(र्व्_10,98)
बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसु-भिः । मरुत्वान् । सः । पर्जन्यम् । शम्-तनवे । वृषय

10.98.2

आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देव-आपे । अभि । माम् । अगच्छत् । प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्यु-मतीम् । वाचम् । आसन्

10.98.3

अस्मे इति । धेहि । द्यु-मतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् । यया । वृष्टिम् । शम्-तनवे । वनाव । दिवः । द्रप्सः । मधु-मान् । आ । विवेश

10.98.4

आ । नः । द्रप्साः । मधु-मन्तः । विशन्तु । इन्द्र । देहि । अधि-रथम् । सहस्रम् । नि । सीद । होत्रम् । ऋतु-था । यजस्व । देवान् । देव-आपे । हविषा । सपयर्

10.98.5

आर्ष्टिषेणः । होत्रम् । ऋषिः । नि-सीदन् । देव-आपिः । देव-सुमतिम् । चिकित्वान् । सः । उत्-तरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि

10.98.6

अस्मिन् । समुद्रे । अधि । उत्-तरस्मिन् । आपः । देवेभिः । नि-वृताः । अतिष्ठन् । ताः । अद्रवन् । आऋष्टिषेणेन । सृष्टाः । देव-आपिना । प्र-इषिताः । मृक्षिणीषु

10.98.7

॥12॥.
-र्व्_8:5।13-
यत् । देव-आपिः । शम्-तनवे । पुरः-हितः । होत्राय । वृतः । कृपयन् । अदीधेत् । देव-श्रुतम् । वृष्टि-वनिम् । रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत्

10.98.8

यम् । त्वा । देव-आपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्-ईधे । वि श्वेभिः । देवैः । अनु-मद्यमानः । प्र । पर्जन्यम् । ईरय । वृष्टि-मन्तम्

10.98.9

त्वाम् । पूर्वे । ऋषयः । गीः-भिः । आयन् । त्वाम् । अध्वरेषु । पुरु-हूत । विश्वे । सहस्राणि । अधि-रथानि । अस्मे इति । आ । नः । यज्ञम् । रिहित्-अश्वा । उप । याहि

10.98.10

एतानि । अग्ने । नवतिः । नव । त्वे इति । आहुतानि । अधि-रथा । सहस्रा । तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि

10.98.11

एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ । वृष्णे । इन्द्राय । भागम् । वि द्वान् । पथः । ऋतु-शः । देव-यानान् । अपि । औलानम् । दिवि । देवेषु । धेहि

10.98.12

अग्ने । बाधस्व । वि । मृधः । वि । दुः-गहा । अप । अमीवाम् । अप । रक्षांसि । सेध । अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc