ऋग्वेदसंहिता, पदपाठ · अध्याय 10.100
॥15॥.
-र्व्_8:5।16-
(र्व्_10,100)
इन्द्र । दृह्य । मघ-वन् । त्वावत् । इत् । भुजे । इह । स्तुतः । सुत-पाः । बोधि । नः । वृधे । देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्व-तातिम् । अदि तिम् । वृणीमहे
भराय । सु । भरत । भागम् । ऋत्वियम् । प्र । वायवे । शुचि-पे । क्रन्दत्-इष्टये । गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
आ । नः । देवः । सविता । साविषत् । वयः । ऋजु-यते । यजमानाय । सुन्वते । यथा । देवान् । प्रति-भूषेम । पाक-वत् । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
इन्द्रः । अस्मे इति । सु-मनाः । अस्तु । विश्वहा । राजा । सोमः । सुवितस्य । अधि । एतु । नः । यथायथा । मित्र-धितानि । सम्-दधुः । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
इन्द्रः । उक्थेन । शवसा । परुः । दधे । बृहस्पते । प्र-तरीता । असि । आयुषः । यज्ञः । मनुः । प्र-मतिः । नः । पिता । हि । कम् । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
इन्द्रस्य । नु । सु-कृतम् । दैव्यम् । सहः । अग्निः । गृहे । जरिता । मेधिरः । कवि ः । यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
॥16॥.
-र्व्_8:5।17-
न । वः । गुहा । चकृम । भूरि । दुः-कृतम् । न । आविः-त्यम् । वसवः । देव-हेळनम् । माकिः । नः । देवाः । अनृतस्य । वर्पसः । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
अप । अमीवाम् । सविता । साविषत् । न्यक् । वरीयः । इत् । अप । सेधन्तु । अद्रयः । ग्रावा । यत्रमधु-सुत् । उच्यते । बृहत् । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
ऊर्ध्वः । ग्रावा । वसवः । अस्तु । सोतरि । विश्वा । द्वेषांसि । सनुतः । युयोत । सः । नः । देवः । सविता । पायुः । ईड्यः । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
ऊर्जम् । गावः । यवसे । पीवः । अत्तन । ऋतस्य । याः । सदने । कोशे । अङ्ध्वे । तनूः । एव । तन्वः । अस्तु । भेषजम् । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
क्रतु-प्रावा । जरिता । शश्वताम् । अवः । इन्द्रः । इत् । भद्रा । प्र-मतिः । सुत-वताम् । पूर्णम् । ऊधः । दिव्यम् । यस्य । सिक्तये । आ । सर्व-तातिम् । अदितिम् । वृणीमहे
चित्रः । ते । भानुः । क्रतु-प्राः । अभिष्टिः । सन्ति । स्पृधः । जरणि-प्राः । अधृष्टाः । रजिष्टया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0