भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.97

10.97.1

॥7॥.
-र्व्_8:5।8-
(र्व्_10,97)
याः । ओषधीः । पूर्वा । जाता । देवेभ्यः । त्रि-युगम् । पुरा । मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च

10.97.2

शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः । अध । शत-क्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत

10.97.3

ओषधीः । प्रति । मोदध्वम् । पुष्प-वतीः । प्र-सूवरीः । अश्वाः-इव । स-जित्वरीः । वीरुधः । पारयिष्ण्वः

10.97.4

ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे । सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष

10.97.5

अश्वत्थे । वः । नि-सदनम् । पर्णे । वः । वसतिः । कृता । गो--भाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम्

10.97.6

॥8॥.
-र्व्_8:5।9-
यत्र । ओषधीः । सम्-अग्मत । राजानः । समितौ-इव । । विप्रः । सः । उच्यते । भिषक् । रक्षः-हा । अमीव-चातनः

10.97.7

अश्व-वतीम् । सम-वतीम् । ऊर्जयन्तीम् । उत्-ओजसम् । आ । अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्ट-तातये

10.97.8

उत् । शुष्माः । ओषधीनाम् । गावः । गोष्ठात्-इव । ईरते । धनम् । सनिष्यन्तीनाम् । आत्मानम् । तव । पुरुष

10.97.9

इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । निः-कृतीः । सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ

10.97.10

अति । विश्वाः । परि-स्थाः । स्तेनः-इव । व्रजम् । अक्रमुः । ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः

10.97.11

॥9॥.
-र्व्_8:5।10-
यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आदधे । आत्मा । यक्ष्मस्य । नश्यति । पुरा । जीव-गृभः । यथा

10.97.12

यस्य । ओषधीः । प्र-सर्पथ । अङ्गम्-अङ्गम् । परुः-परुः । ततः । यक्ष्मम् । वि । बाधध्वे । उग्रः । मध्यमशीः-इव

10.97.13

साकम् । यक्ष्म । प्र । पत । चाषेण । किकिदीविना । साकम् । वातस्य । ध्राज्या । साकम् । नश्य । नि-हाकया

10.97.14

अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत । ताः । सर्वाः । सम्-विदानाः । इदम् । मे । प्र । अवत । वचः

10.97.15

याः । फलिनीः । याः । अफलाः । अपुष्पाः । याः । च । पुष्पिणीः । बृहस्पति-प्रसूताः । ताः । नः । मुञ्चन्तु । अंहसः

10.97.16

॥10॥.
-र्व्_8:5।11-
मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत । अथो इति । यमस्य । पडबढबदबद्रह्णीशात् । सर्वस्मात् । देव-किल्बिषात्

10.97.17

अव-पतन्तीः । अवदन् । दिवः । ओषधयः । परि । यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः

10.97.18

याः । ओषधीः । सोम-राज्ञीः । बह्वीः । शत-विचक्षणाः । तासाम् । त्वम् । असि । उत्-तमा । अरम् । कामाय । शम् । हृदे

10.97.19

याः । ओषधीः । सोम-राज्ञीः । वि-स्थिताः । पृथिवीम् । अनु । बृहस्पति-प्रसूताः । अस्यै । सम् । दत्त । वीर्यम्

10.97.20

मा । वः । रिषत् । खनिता । यस्मै । च । अहम् । खनामि । वः । द्वि-पत् । चतुः-पत् । अस्माकम् । सर्वम् । अस्तु । अनातुरम्

10.97.21

याः । च । इदम् । उप-शृण्वन्ति । याः । च । दूरम् । परागताः । सर्वाः । सम्-गत्य । वीरुधः । अस्यै । सम् । दत्त । वीर्यम्

10.97.22

ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि

10.97.23

त्वम् । उत्-तमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभि-दासति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc