भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.96

10.96.1

॥4॥.
-र्व्_8:5।5-
(र्व्_10,96)
प्र । ते । महे । विदथेशम्सिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् । घृतम् । न । यः । हरि-भि ः । चारु । सेचत । आ । त्वा । विशन्तु । हरि-वर्पसम् । गिरः

10.96.2

हरिम् । हि । योनिम् । अभि । ये । सम्-अस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा । सदः । आ । यम् । पृणन्ति । हरि-भिः । न । धेनवः । इन्द्राय । शूषम् । हरि-वन्तम् । अर्चत

10.96.3

सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । नि-कामः । हरिः । आ । गभस्त्योः । द्युम्नी । सु-शिप्रः । हरिमन्यु-सायकः । इन्द्रे । नि । रूपा । हर् इता । मिमिक्षिरे

10.96.4

दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या । तुदत् । अहिम् । हरि-शिप्रः । यः । आयसः । सहस्र-शोकाः । अभवत् । हरिम्-भरः

10.96.5

त्वम्-त्वम् । अहर्यथाः । उप-स्तुतः । पूर्वेभिः । इन्द्र । हरि-केश । यज्व-भिः । त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरि-जात । हर्यतम्

10.96.6

॥5॥.
-र्व्_8:5।6-
ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति । पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे

10.96.7

अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा । अर्वत्-भिः । यः । हरि-भिः । जोषम् । ईयते । सः । अस्य । कामम् । हर् इ-वन्तम् । आनशे

10.96.8

हरि-श्मशारुः । हरि-केशः । आयसः । तुरः-पेये । यः । हरि-पाः । अवधर्त । अर्वत्-भिः । यः । हरि-भिः । वाजिनी-वसुः । अति । विश्वा । दुः-इता । पारिषत् । हरी इति

10.96.9

स्रुवाइव । यस्य । हरिणी इति । वि-पेततुः । शिप्रेइति । वाजाय । हरिणी इति । दविध्वतः । प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः

10.96.10

उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरि-वान् । अच् इक्रदत् । मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हयर्तः । चित् । आ

10.96.11

॥6॥.
-र्व्_8:5।7-
आ । रोदसी इति । हर्यमाणः । महि-त्वा । नव्यम्-नव्यम् । हर्यसि । मन्म । नु । प्रियम् । प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय

10.96.12

आ । त्वा । हर्यन्तम् । प्र-युजः । जनानाम् । रथे । वहन्तु । हरि-शिप्रम् । इन्द्र । पिब । यथा । प्रति-भृतस्य । मध्वः । हर्यन् । यज्ञम् । सध-मादे । दश-ओणिम्

10.96.13

अपाः । पूर्वेषाम् । हरि-वः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते । ममद्धि । सोमम् । मधु-मन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc