ऋग्वेदसंहिता, पदपाठ · अध्याय 10.95
॥31॥.
-र्व्_8:5।1-
(र्व्_10,95)
हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु । न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । पर-तरे । चन । अहन्
किम् । एता । वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाइव । पुरूरवः । पुनः । अस्तम् । परा । इहि । दुः-आपना । वातः-इव । अहम् । अस्मि
इषुः । न । शृइये । इषु-धेः । असना । गो--साः । शतसा । न । रंहिः । अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः
सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्ति-गृहात् । अस्तम् । ननक्षे । यस्मिम् । चाकन् । दिवा । नक्तम् । श्नथिता । वैतसेन
त्रिः । स्म । माह्नः । श्नथयः । वैतसेन । उत । स्म । मे । अव्यत्यै पृणासि । पुरूरवः । अनु । ते । केतम् । आयम् । राजा । मे । वीर । तन्वः । तत् । आसीः
॥1॥.
-र्व्_8:5।2-
या । सु-जूर्णिः । श्रेणिः । सुम्ने--आपिः । ह्रदे--चक्षुः । न । ग्रन्थिनाई । चरण्युः । ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त
सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत । ईम् । अवर्धन् । नद्यः । स्व-गूर्ताः । महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन् । दस्यु-हत्याय । देवाः
सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । नि-सेवे । अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन् । रथ-स्पृशः । न । अश्वाः
यत् । आसु । मर्तः । अमृतासु । नि-स्पृक् । सम् । क्षोणीभिः । क्रतु-भिः । न । पृङ्क्ते । ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः
वि-द्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे । अप्या । काम्यानि । जनिष्टो इति । अपः । नर्यः । सु-जातः । प्र । उर्वशी । तिरत । दीर्घम् । आयुः
॥2॥.
-र्व्_8:5।3-
जज्ञिषे । इत्था । गो--पीथ्याय । हि । दधाथ । तत् । पुरूरवः । मे । ओजः । अशासम् । त्वा । विदुषी । सस्मिन् । अहन् । न । मे । आ । अशृणोः । किम् । अभुक् । वदासि
कदा । सूनुः । पितरम् । जातः । इच्छात् । चक्रन् । न । अश्रु । वर्तयत् । वि-जानन् । कः । दम्पती इतिदम्-पती । स-मनसा । वि । यूयोत् । अध । यत् । अग्निः । श्वशुरेषु । दीदयत्
प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आध्ये । शिवायै । प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि । मूर । मा । आपः
सु-देवः । अद्य । प्र-पतेत् । अनावृत् । परावतम् । परमाम् । गन्तवै । ओं इति । अध । शयीत । निः-ऋतेः । उप-स्थे । अध । एनम् । वृकाः । रभसासः । अद्युः
पुरूरवः । मा । मृथाः । मा । प्र । पप्तः । मा । त्वा । वृकासः । अशिवासः । ओं इति । क्षन् । न । वै । स्त्रैणानि । सख्यानि । सन्ति । सालावृकाणाम् । हृदयानि । एता
॥3॥.
-र्व्_8:5।4-
यत् । वि-रूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः । घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि
अन्तरिक्ष-प्राम् । रजसः । वि-मानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः । उप । त्वा । रातिः । सु-कृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे
इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्यु-बन्धुः । प्र-जा । ते । देवान् । हविषा । यजाति । स्वः-गे । ओं इति । त्वम् । अपि । मादयासे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0