ऋग्वेदसंहिता, पदपाठ · अध्याय 10.94
॥28॥.
-र्व्_8:4।29-
(र्व्_10,94)
प्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्राव-भ्यः । वाचम् । वदत । वदत्-भ्यः । यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः
एते । वदन्ति । शत-वत् । सहस्र-वत् । अभि । क्रन्दन्ति । हरितेभिः । आस-भि ः । विष्टवी । ग्रावाणः । सु-कृतः । सु-कृत्यया । होतुः । चित् । पूर्वे । हविः-अद्यम् । आशत
एते । वदन्ति । अविदन् । अना । मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि । वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते । सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः
बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना । मधु । सम्-रभ्य । धीराः । स्वसृ-भिः । अनर्तिषुः । आघोषयन्तः । पृथिवीम् । उपब्दि-भिः
सु-पर्णाः । वाचम् । अक्रत । उप । द्यवि । आखरे । कृष्णाः । इषिराः । अनर्तिषुः । न्यक् । नि । यन्ति । उपरस्य । निः-कृतम् । पुरु । रेतः । दधिरे । सूर्य-श्वितः
॥29॥.
-र्व्_8:4।30-
उग्राः-इव । प्र-वहन्तः । सम्-आयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः । यद् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्-इव
दशावनि-भ्यः । दशकक्ष्येभ्यः । दश-योक्त्रेभ्यः । दश-योजनेभ्यः । दशाभीशु-भ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्-भ्यः
ते । अद्रयः । दश-यन्त्रासः । आशवः । तेषाम् । आधानम् । परि । एति । हर्यतम् । ते । ओं इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे
ते । सोम-अदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि । तेभिः । दुग्धम् । पपि-वान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृष-यते
वृषा । वः । अंशुः । न । किल । रिषाथन । इळावन्तः । सदम् । इत् । स्थन । आशि ताः । रैवत्याइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम्
॥30॥.
-र्व्_8:4।31-
तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः । अनातुराः । अजराः । स्थ । अमविष्णवः । सु-पीवसः । अतृषिताः । अतृष्ण-जः
ध्रुवाः । एव । वः । पितरः । युगे--युगे । क्षेम-कामासः । सदसः । न । युञ्जते । अजुर्यासः । हरि-साचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः
तत् । इत् । वदन्ति । अद्रयः । वि-मोचने । यामन् । अञ्जःपाः-इव । घ । इत् । उपब्दि--भिः । वपन्तः । बीजम्-इव । धान्य-कृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः
सुते । अध्वरे । अधि । वाचम् । अक्रत । । आ । क्रीळयः । न । मातरम् । तुदन्तः । वि । सु । मुञ्च । सुसु-वुषः । मनीषाम् । व् इ । वर्तन्ताम् । अद्रयः । चायमानाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0