भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.93

10.93.1

॥25॥.
-र्व्_8:4।26-
(र्व्_10,93)
महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः । तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि

10.93.2

यज्ञे--यज्ञे । सः । मर्त्यः । देवान् । सपर्यति । यः । सुम्नैः । दीर्घश्रुत्-तमः । आविवासाति । एनान्

10.93.3

विश्वेषाम् । इरज्यवः । देवानाम् । वाः । महः । विश्वे । हि । विश्व-महसः । विश्वे । यज्ञेषु । यज्ञियाः

10.93.4

ते । घ । राजानः । अमृतस्य । मन्द्राः । अर्यमा । मित्रः । वरुणः । परि-ज्मा । कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः

10.93.5

उत । नः । नक्तम् । अपाम् । वृषण्वसूइतिवृषण्-वसू । सूर्यामासा । सदनाय । स-धन्या । सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः

10.93.6

॥26॥.
-र्व्_8:4।27-
उत । नः । देवौ । अश्विना । शुभः । पती इति । धाम-भिः । मित्रावरुणौ । उरुष्यताम् । महः । सः । रायः । आ । ईषते । अति । धन्वाइव । दुः-इता

10.93.7

उत । नः । रुद्रा । चित् । मृळताम् । अश्विना । विश्वे । देवासः । रथःपतिः । भगः । ऋभुः । वाजः । ऋभुक्षणः । परि-ज्मा । विश्व-वेदसः

10.93.8

ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना । दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः

10.93.9

कृधि । नः । अह्रयः । देव । सवितरिति । सः । च । स्तुषे । मघोनाम् । सहः । नः । इन्द्रः । वह्नि-भिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे

10.93.10

आ । एषु । द्यावापृथिवी इति । धातम् । महत् । अस्मे इति । वीरेषु । विश्व-चर्षणि । श्रवः । पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे

10.93.11

॥27॥.
-र्व्_8:4।28-
एतम् । शंसम् । इन्द्र । अस्म-युः । त्वम् । कू-चित् । सन्तम् । सहसावन् । अभि ष्टये । सदा । पाहि । अभिष्टये । मेदताम् । वेदता । वसो इति

10.93.12

एतम् । मे । स्तोमम् । तना । न । सूर्ये । द्युतत्-यामानम् । ववृधन्त । नृणाम् । सम्-वननम् । न । अस्व्यम् । तष्टाइव । अनप-च्युतम्

10.93.13

ववर्त । येषाम् । राया । युक्ता । एषाम् । हिरण्ययी । नेम-धिता । न । पैंस्या । वृथाइव । विष्ट-अन्ता

10.93.14

प्र । तत् । दुः-शीमे । पृथवाने । वेने । प्र । रामे । वोचम् । असुरे । मघवत्-सु । ये । युक्त्वाय । पञ्च । शता । अस्म-यु । पथा । वि-श्रावि । एषाम्

10.93.15

अधिइत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc