भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.92

10.92.1

॥22॥.
-र्व्_8:4।23-
(र्व्_10,92)यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभावसुम् । शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत

10.92.2

इमम् । अञ्जः-पाम् । उभये । अकृण्वत । धर्माणम् । अग्निम् । विदथस्य । साधनम् । अक्तुम् । न । यह्वम् । उषसः । पुरः-हितम् । तनू-नपातम् । अरुषस्य । निंसते

10.92.3

बट् । अस्य । नीथा । वि । पणेः । च । मन्महे । वयाः । अस्य । प्र-हुताः । आसुः । अत्तवे । यदा । घोरासः । अमृत-त्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन्

10.92.4

ऋतस्य । हि । प्र-सितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनायसी । इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूत-दक्षसः

10.92.5

प्र । रुद्रेण । ययिना । यन्ति । सिन्धवः । तिरः । महीम् । अरमतिम् । दधन्विरे । येभिः । परि-ज्मा । परि-यन् । उरु । ज्रयः । वि । रोरुवत् । जठरे । विश्वम् । उक्षते

10.92.6

॥23॥.
-र्व्_8:4।24-
क्राणाः । रुद्राः । मरुतः । विश्व-कृष्टयः । दिवः । श्येनासः । असुरस्य । नीळयः । तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः

10.92.7

इन्द्रे । भुजम् । शशमानासः । आशत । सूरः । दृशीके । वृषणः । च । पैंस्ये । प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृ-सदनेषु । कारवः

10.92.8

सूरः । चित् । आ । हरितः । अस्य । रीरमत् । इन्द्रात् । आ । कः । चित् । भयते । तवीयसः । भीमस्य । वृष्णः । जठरात् । अभि-श्वसः । दिवे--दिवे । सहुरिः । स्तन् । अबाधितः

10.92.9

स्तोमम् । वः । अद्य । रुद्राय । शिक्वसे । क्षयत्-वीराय । नमसा । दिदिष्टन । येभिः । शिवः । स्व-वान् । एवयाव-भिः । दिवः । सिसक्ति । स्व-यशाः । निकाम-भिः

10.92.10

ते । हि । प्र-जायाः । अभरन्त । वि । श्रवः । बृहस्पतिः । वृषभः । सोम-जामयः । यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे

10.92.11

॥24॥.
-र्व्_8:4।25-
ते । हि । द्यावापृथिवी इति । भूरि-रेतसा । नराशंसः । चतुः-अङ्गः । यमः । अदितिः । देवः । त्वष्टा । द्रविणः-दाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे

10.92.12

उत । स्यः । नः । उशिजाम् । उर्विया । कविः । अहिः । शृणोतु । बुध्न्यः । हवीमनि । सूर्यामासा । वि-चरन्ता । दिवि-क्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम्

10.92.13

प्र । नः । पूषा । चरथम् । विश्व-देव्यः । अपाम् । नपात् । अवतु । वायुः । इष्टये । आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सु-हवा । यामनि । श्रुतम्

10.92.14

विशाम् । आसाम् । अभयानाम् । अधि-क्षितम् । गीः-भिः । ओं इति । स्व-यशसम् । गृणीमसि । ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृ-मनाः । । अध । पतिम्

10.92.15

रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् । येभिः । वि-हायाः । अभवत् । वि-चक्षणः । पाथः । सु-मेकम् । स्व-धितिः । वनन्-वति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc