ऋग्वेदसंहिता, पदपाठ · अध्याय 10.9
॥4॥.
-र्व्_7:6।5-
(र्व्_10,9)
आपः । हि । स्थ । मयः-भुवः । ताः । नः । ऊर्जे । दधातन । महे । रणाय । चक्षसे
यः । वः । शिव-तमः । रसः । तस्य । भाजयत । इह । नः । उशतीः-इव । मातरः
तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ । आपः । जनयथ । च । नः
शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये । शम् । योः । अभि । स्रवन्तु । नः
ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् । अपः । याचामि । भेषजम्
अप्-सु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा । अग्निम् । च । विश्व-शम्भुवम्
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम । ज्योक् । च । सूर्यम् । दृशे
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुः-इतम् । मयि । यत् । वा । अहम् । अभि--दुद्रोह । यत् । वा । शेपे । उत । अनृतम्
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि । पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0