ऋग्वेदसंहिता, पदपाठ · अध्याय 10.10
॥5॥.
-र्व्_7:6।6-
(र्व्_10,10)
ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् । पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्र-तरम् । दीध्यानः
न । ते । सखा । सख्यम् । वष्ति । एतत् । स-लक्ष्मा । यत् । विषु-रूपा । भवाति । महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन्
उशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः
न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋता । वदन्तः । अनृतम् । रपेम । गन्धर्वः । अप्-सु । अप्या । च । योषा । सा । नः । नाभिः । परमम् । जामि । तत् । नौ
गर्भे । नु । नौ । जनिता । दम्पती इतिदम्-पती । कः । देवः । त्वष्टा । सविता । विश्व-रूपः । नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः
॥6॥.
-र्व्_7:6।7-
कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईम् । दृर्श । कः । इह । प्र । वोचत् । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ओं इति । ब्रवः । आहनः । वीच्या । नॄन्
यमस्य । मा । यम्यम् । कामः । आ । अगन् । समाने । योनौ । सह-शेय्याय । जायाइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याइव । चक्रा
न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पशः । इह । ये । चरन्ति । अन्येन । मत् । आहनः । याहि । तूयम् । तेन । वि । वृहेव । रथ्याइव । चक्रा
रात्रीभिः । अस्मै । अह-भिः । दशस्येत् । सूर्यस्य । चक्षुः । मुहुः । उत् । मिमीयात् । दिवा । पृथिव्या । मिथुना । सबन्धूइतिस-बन्धू । यमीः । यमस्य । बिभृयात् । अजामि
आ । घ । ता । गच्छान् । उत्-तरा । युगानि । यत्र । जामयः । कृणवन् । अजामि । उप । बर्बृहि । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सु-भगे । पतिम् । मत्
॥7॥.
-र्व्_7:6।8-
किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ओं इति । स्वसा । यत् । निः-ऋतिः । नि-गच्छात् । काम-मूता । बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि
न । वै । ओं इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । नि-गच्छात् । अन्येन । मत् । प्र-मुदः । कल्पयस्व । न । ते । भ्राता । सु-भगे । वष्टि । एतत्
बतः । बत । असि । यम । न । एव । ते । मनः । हृदयम् । च । अविदाम । अन्या । क् इल । त्वाम् । कक्ष्याइव । युक्तम् । परि । स्वजाते । लिबुजाइव । वृक्षम्
अन्यम् । ओं इति । सु । त्वम् । यमि । अन्यः । ओं इति । त्वाम् । परि । स्वजाते । लिबुजाइव । वृक्षम् । तस्य । वा । त्वम् । मनः । इच्छा । सः । वा । तव । अध । कृणुष्व । सम्-विदम् । सु-भद्राम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0