भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.8

10.8.1

॥2॥.
-र्व्_7:6।3-
(र्व्_10,8)
प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति । दिवः । चित् । अन्तान् । उप-मान् । उत् । आनट् । अपाम् । उप-स्थे । महिषः । ववर्ध

10.8.2

मुमोद । गर्भः । वृषभः । ककुत्-मान् । अस्रेमा । वत्सः । शिमी-वान् । अरावीत् । सः । देव-ताति । उत्-यतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति

10.8.3

आ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः । अस्य । पत्मन् । अरुषीः । अश्व-बुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त

10.8.4

उषः-उषः । हि । वसो इति । अग्रम् । एषि । त्वम् । यमयोः । अभवः । विभावा । ऋताय । सप्त । दधिषे । पदानि । जनयन् । मित्रम् । तन्वे । स्वायै

10.8.5

भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि । भुवः । अपाम् । नपात् । जात-वेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः

10.8.6

॥3॥.
-र्व्_7:6।4-
भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुत्-भिः । सचसे । शिवाभिः । द् इवि । मूर्धानम् । दधिषे । स्वः-साम् । जिह्वाम् । अग्ने । चकृषे । हव्य-वाहम्

10.8.7

अस्य । त्रितः । क्रतुना । वव्रे । अन्तः । इच्छन् । धीतिम् । पितुः । एवैः । परस्य । सचस्यमानः । पित्रोः । उप-स्थे । जामि । ब्रुवाणः । आयुधानि । वेति

10.8.8

सः । पित्र्याणि । आयुधानि । विद्वान् । इन्द्र-इषितः । आप्त्यः । अभि । अयुध्यत् । त्रि-शीर्षाणम् । सप्त-रश्मिम् । जघन्वान् । त्वाष्ट्रस्य । चित् । निः । ससृजे । त्रितः । गाः

10.8.9

भूरि । इत् । इन्द्रः । उत्-इनक्षन्तम् । ओजः । अव । अभिनत् । सत्-पतिः । मन्यमानम् । त्वाष्ट्रस्य । चित् । विश्व-रूपस्य । गोनाम् । आचक्राणः । त्रीणि । शीर्षा । परा । वर्क

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc