ऋग्वेदसंहिता, पदपाठ · अध्याय 10.87
॥4॥.
-र्व्_8:4।5-
(र्व्_10,87)
रक्षः-हनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म । शिशानः । अग्निः । क्रतु-भिः । सम्-इद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम्
अयः-दंष्ट्रः । अर्चिषा । यातु-धानान् । उप । स्पृश । जात-वेदः । सम्-इद्धः । आ । जिह्वया । मूर-देवान् । रभस्व । क्रव्य-अदः । वृक्त्वी । अपि । धत्स्व । आसन्
उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च । उत । अन्तरिक्षे । परि । याहि राजन् । जम्भैः । सम् । धेहि । अभि । यातु-धानान्
यज्ञैः । इषूः । सम्-नममानः । अग्ने । वाचा । शल्यान् । अशनि-भिः । दिहानः । ताभिः । विध्य । हृदये । यातु-धानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम्
अग्ने । त्वचम् । यातु-धानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जात-वेदः । शृणीहि । क्रव्यात् । क्रविष्णुः । वि । चिनोतु । वृक्णम्
॥5॥.
-र्व्_8:4।6-
यत्र । इदानीम् । पश्यसि । जात-वेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् । यत् । वा । अन्तरिक्षे । पथि-भिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः
उत । आलब्धम् । स्पृणुहि । जात-वेदः । आलेभानात् । ऋष्टि-भिः । यातु-धानात् । अग्ने । पूर्वः । नि । जहि । शोशुचानः । आम-अदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः
इह । प्र । ब्रूहि । यतमः । सः । अग्ने । यः । यातु-धानः । यः । इदम् । कृणोति । तम् । आ । रभस्व । सम्-इधा । यविष्ठ । नृ-चक्षसः । चक्षुषे । रन्धय । एनम्
तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसु-भ्यः । प्र । नय । प्र-चेतः । हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातु-धानाः । नृ-चक्षः
नृ-चक्षाः । रक्षः । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा । तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातु-धानस्य । वृश्च
॥6॥.
-र्व्_8:4।7-
त्रिः । यातु-धानः । प्र-सितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति । तम् । अर्चिषा । स्फूर्जयन् । जात-वेदः । सम्-अक्षम् । एनम् । गृणते । नि । वृङ्धि
तत् । अग्ने । चक्षुः । प्रति । धेहि । रेभे । शफ-आरुजम् । येन । पश्यसि । यातु-धानम् । अथर्व-वत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष
यत् । अग्ने । अद्य । मिथुना । शपातः । यत् । वाचः । तृष्टम् । जनयन्त । रेभाः । मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातु-धानान्
परा । शृणीहि । तपसा । यातु-धानान् । परा । अग्ने । रक्षः । हरसा । शृणीहि । परा । अर्चिषा । मूर-देवान् । शृणीहि । परा । असु-तृपः । अभि । शोशुचानः
परा । अद्य । देवाः । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथाः । यन्तु । तृष्टाः । वाचास्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्र-सितिम् । यातु-धानः
॥7॥.
-र्व्_8:4।8-
यः । पौरुषेयेण । क्रविषा । सम्-अङ्क्ते । यः । अश्व्येन । पशुना । यातु-धानः । यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च
संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातु-धानः । नृ-चक्षः । पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन्
विषम् । गवाम् । यातु-धानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुः-एवाः । परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम्
सनात् । अग्ने । मृणसि । यातु-धानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः । अनु । दह । सह-मूरान् । क्रव्य-अदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः
त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् । प्रति । ते । ते । अजरासः । तपिष्ठाः । अघ-शंसम् । शोशुचतः । दहन्तु
॥8॥.
-र्व्_8:4।9-
पश्चात् । पुरस्तात् । अधरात् । उदक्तात् । कविः । काव्येन । परि । पाहि । राजन् । सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः
परि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषत्-वर्णम् । दिवे--दिवे । हन्तारम् । भङ्गुर-वताम्
विषेण । भङ्गुर-वतः । प्रति । स्म । रक्षसः । दह । अग्ने । तिग्मेन । शोचिषा । तपुः-अग्राभिः । ऋष्टि-भिः
प्रति । अग्ने । मिथुना । दह । यातु-धाना । किमीदिना । सम् । त्वा । शिशामि । जागृहि । अदब्धम् । विप्र । मन्म-भिः
प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति । यातु-धानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0