भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.7

10.7.1

॥1॥.
-र्व्_7:6।2-
(र्व्_10,7)
स्वस्ति । नः । दिवः । अग्ने । पृथिव्याः । विश्व-आयुः । धेहि । यजथाय । देव । सचेमहि । तव । दस्म । प्र-केतैः । उरुष्य । नः । उरु-भिः । देव । शंसैः

10.7.2

इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मति-भिः । सु-जात

10.7.3

अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् । अग्नेः । अनीकम् । बृहतः । सपर्यन् । दिवि । शुक्रम् । यजतम् । सूर्यस्य

10.7.4

सिध्राः । अग्ने । धियः । अस्मे इति । सनुत्रीः । यम् । त्रायसे । दमे । आ । नित्य-होता । ऋत-वा । सः । रोहित्-अश्वः । पुरु-क्षुः । द्यु-भिः । अस्मै । अह-भिः । वामम् । अस्तु

10.7.5

द्यु-भिः । हितम् । मित्रम्-इव । प्र-योगम् । प्रत्नम् । ऋत्विजम् । अध्वरस्य । जारम् । बाहु-भ्याम् । अग्निम् । आयवः । अजनन्त । विक्षु । होतारम् । नि । असादयन्त

10.7.6

स्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्र-चेताः । यथा । अयजः । ऋतु-भिः । देव । देवान् । एव । यजस्व । तन्वम् । सु-जात

10.7.7

भव । नः । अग्ने । अविता । उत । गोपाः । भव । वयः-कृत् । उत । नः । वयः-धाः । रास्व । च । नः । सु-महः । हव्य-दातिम् । त्रास्व । उत । नः । तन्वः । अप्र-युच्छन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc