ऋग्वेदसंहिता, पदपाठ · अध्याय 10.77
॥9॥.
-र्व्_8:3।10-
(र्व्_10,77)
अभ्र-प्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । वि-जानुषः । सु-मारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे
श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सु-मारुतम् । न । पूर्वीः । अति । क्षपः । दि वः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः
प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः । पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभि-द्यवः
युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति । विश्व-प्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत
यूयम् । धूः-सु । प्र-युजः । न । रश्मि-भिः । ज्योतिष्मन्तः । न । भासा । वि-उष्टिषु । श्येनासः । न । स्व-यशसः । रिशादसः । प्रवासः । न । प्र-सितासः । परि-प्रुषः
॥10॥.
-र्व्_8:3।11-
प्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्-वरणस्य । वस्वः । विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत
यः । उत्-ऋचि । यज्ञे । अध्वरे--स्थाः । मरुत्-भ्यः । न । मानुषः । ददाशत् । रेवत् । सः । वयः । दधते । सु-वीरम् । सः । देवानाम् । अपि । गो--पीथे । अस्तु
ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्-भविष्ठाः । ते । नः । अवन्तु । रथ-तूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0