भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.76

10.76.1

॥7॥.
-र्व्_8:3।8-
(र्व्_10,76)
आ । वः । ऋञ्जसे । ऊर्जाम् । वि-उष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन । उभे इति । यथा । नः । अहनी इति । सचाभुवा । सदः-सदः । वरिवस्यातः । उत्-भिदा

10.76.2

तत् । ओं इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्त-यतः । अद्रिः । सोतर् इ । विदत् । हि । अर्यः । अभि-भूति । पैंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः

10.76.3

तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् । गो--अर्णसि । त्वाष्ट्रे । अश्व-निर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः

10.76.4

अप । हत । रक्षसः । भङ्गुर-वतः । स्कभायत । निः-ऋतिम् । सेधत । अमतिम् । आ । नः । रयिम् । सर्व-वीरम् । सुनोतन । देव-अव्यम् । भरत । श्लोकम् । अद्रयः

10.76.5

दिवः । चित् । आ । वः । अमवत्-तरेभ्यः । वि-भ्वना । चित् । आश्वपः-तरेभ्यः । वायोः । चित् । आ । सोमरभः-तरेभ्यः । अग्नेः । चित् । अर्च । पितुकृत्-तरेभ्यः

10.76.6

॥8॥.
-र्व्_8:3।9-
भुरन्तु । नः । यशसः । सोतु । अन्धसः । ग्रावाणः । वाचा । दिविता । दिवित्मता । नरः । यत्र । दुहते । काम्यम् । मधु । आघोषयन्तः । अभितः । मिथः-तुरः

10.76.7

सुन्वन्ति । सोमम् । रथिरासः । अद्रयः । निः । अस्य । रसम् । गो--इषः । दुहन्ति । ते । दुहन्ति । ऊधः । उप-सेचनाय । कम् । नरः । हव्या । न । मर्जयन्ते । आस-भिः

10.76.8

एते । नरः । सु-अपसः । अभूतन । ये । इन्द्राय । सुनुथ । सोमम् । अद्रयः । वामम्-वामम् । वः । दिव्याय । धाम्ने । वसु-वसु । वः । पार्थिवाय । सुन्वते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc