ऋग्वेदसंहिता, पदपाठ · अध्याय 10.78
॥11॥.
-र्व्_8:3।12-
(र्व्_10,78)
विप्रासः । न । मन्म-भिः । सु-आध्यः । देव-अव्यः । न । यज्ञैः । सु-अप्नसः । राजानः । न । चित्राः । सु-सन्दृशः । क्षितीनाम् । न । मर्याः । अरेपसः
अग्निः । न । ये । भ्राजसा । रुक्म-वक्षसः । वातासः । न । स्व-युजः । सद्यः-ऊतयः । प्र-ज्ञातारः । न । ज्येष्ठाः । सु-नीतयः । सु-शर्माणः । न । सोमाः । ऋतम् । यते
वातासः । न । ये । धुनयः । जिगत्नवः । अग्नीनाम् । न । जिह्वाः । वि-रोकिणः । वर्मण्-वन्तः । न । योधाः । शिमी-वन्तः । पितॄणाम् । न । शंसाः । सु-रातयः
रथानाम् । न । ये । अराः । स-नाभयः । जिगीवांसः । न । शूराः । अभि-द्यवः । वरे--यवः । न । मर्याः । घृत-प्रुषः । अभि-स्वर्तारः । अर्कम् । न । सु-स्तुभः
अश्वासः । न । ये । ज्येष्ठासः । आशवः । दिधिषवः । न । रथ्यः । सु-दानवः । आपः । न । निम्नैः । उद-भिः । जिगत्नवः । विश्व-रूपाः । अङ्गिरसः । न । साम-भिः
॥12॥.
-र्व्_8:3।13-
ग्रावाणः । न । सूरयः । सिन्धु-मातरः । आदर्दिरासः । अद्रयः । न । विश्वहा । शिशूलाः । न । क्रीळयः । सु-मातरः । महाग्रामः । न । यामन् । उत । त्व् इषा
उषसाम् । न । केतवः । अध्वर-श्रियः । शुभम्-यवः । न । अञ्जि-भिः । वि । अश्वितन् । सिन्धवः । न । ययियः । भ्राजत्-ऋष्टयः । परावतः । न । योजनानि । ममिरे
सु-भागान् । नः । देवाः । कृणुत । सु-रत्नान् । अस्मान् । स्तोतॄन् । मरुतः । ववृधानाः । अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्न-धेयानि । सन्ति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0