ऋग्वेदसंहिता, पदपाठ · अध्याय 10.75
॥5॥.
-र्व्_8:3।6-
(र्व्_10,75)
प्र । सु । वः । आपः । महिमानम् । उत्-तमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्त-सप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा
प्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् । भूम्याः । अधि । प्र-वता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि
दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना । अभ्रात्-इव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत्
अभि । त्वा । सिन्धो इति । शिशुम् । इत् । न । मातरः । वाश्राः । अर्षन्ति । पयसाइव । धेनवः । राजाइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्र-वताम् । इनक्षसि
इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ । असिक्न्या । मरुत्-वृधे । वितस्तया । आज्र्जीकीये । शृणुहि । आ । सु-सोमया
॥6॥.
-र्व्_8:3।7-
तृष्ट-अमया । प्रथमम् । यातवे । स-जूः । सु-सर्त्वा । रसया । श्वेत्या । त्या । त्वम् । सिन्धो इति । कुभया । गो--मतीम् । क्रुमुम् । मेहत्न्वा । स-रथम् । याभिः । ईयसे
ऋजीती । एनी । रुशती । महि-त्वा । परि । ज्रयांसि । भरते । रजांसि । अदब्धा । सिन्धुः । अपसाम् । अपः-तमा । अश्वा । न । चित्रा । वपुषी-इव । दर्शता
सु-अश्वा । सिन्धुः । सु-रथा । सु-वासाः । हिरण्ययी । सु-कृता । वाजिनी-वती । ऊर्णावती । युवतिः । सीलमावती । उत । अधि । वस्ते । सु-भगा । मधु-वृधम्
सुखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ । महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्व-यशसः । वि-रप्शिनः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0