ऋग्वेदसंहिता, पदपाठ · अध्याय 10.74
॥4॥.
-र्व्_8:3।5-
(र्व्_10,74)
वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयि-मन्तः । सातौ । वनुम् । वा । ये । सु-श्रुणम् । सु-श्रुतः । धुरितिधुः
हवः । एषाम् । असुरः । नक्षत । द्याम् । श्रवस्यता । मनसा । निंसत । क्षाम् । चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः
इयम् । एषाम् । अमृतानाम् । गीः । सर्व-ताता । ये । कृपणन्त । रत्नम् । धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि
आ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गो--मन्तम् । तितृत्सान् । सकृत्-स्वम् । ये । पुरु-पुत्राम् । महीम् । सहस्र-धाराम् । बृहतीम् । दुधुक्षन्
शची-वः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् । ऋभुक्षणम् । मघ-वानम् । सु-वृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरु-क्षुः
यत् । ववान । पुरु-तमम् । पुराषाट् । आ । वृत्र-हा । इन्द्रः । नामानि । अप्राः । अचेति । प्र-सहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0