ऋग्वेदसंहिता, पदपाठ · अध्याय 10.73
॥2॥.
-र्व्_8:3।3-
(र्व्_10,73)
जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुल-अभिमानः । अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा
द्रुहः । नि-सत्ता । पृशनी । चित् । एवैः । पुरु । शंसेन । ववृधुः । ते । इन्द्रम् । अभिवृताइव । ता । महापदेन । ध्वान्तात् । प्र-पित्वात् । उत् । अरन्त । गर्भाः
ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र । त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः
समना । तूर्णिः । उप । यासि । यज्ञम् । आ । नासत्या । सख्याय । वक्षि । वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि
मन्दमानः । ऋतात् । अधि । प्र-जायै । सखि-भिः । इन्द्रः । इषिरेभिः । अर्थम् । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि
॥3॥.
-र्व्_8:3।4-
स-नामाना । चित् । ध्वसयः । नि । अस्मै । अव । अहन् । इन्द्रः । उषसः । यथा । अनः । ऋष्वैः । अगच्छः । सखि-भिः । नि-कामैः । साकम् । प्रति-स्था । हृद्या । जघन्थ
त्वम् । जाघन्थ । नमुचिम् । मखस्युम् । दासम् । कृण्वानः । ऋषये । वि-मायम् । त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देव-त्रा । अञ्जसाइव । यानान्
त्वम् । एतानि । पप्रिषे । वि । नाम । ईशानः । इन्द्र । दधिषे । गभस्तौ । अनु । त्वा । देवाः । शवसा । मदन्ति । उपरि-बुध्नान् । वनिनः । चकर्थ
चक्रम् । यत् । अस्य । अप्-सु । आ । नि-सत्तम् । उतो इति । तत् । अस्मै । मधु । इत् । चच्छद्यात् । पृथिव्याम् । अति-सितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु
अश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् । मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्र-जज्ञे । इन्द्रः । अस्य । वेद
वयः । सु-पर्णाः । उप । सेदुः । इन्द्रम् । प्रिय-मेधाः । ऋषयः । नाधमानाः । अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाइव । बद्धान्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0