भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.72

10.72.1

॥24॥.
-र्व्_8:3।1-
(र्व्_10,72)
देवानाम् । नु । वयम् । जाना । प्र । वोचाम । विपन्यया । उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्-तरे । युगे

10.72.2

ब्रह्मणः । पतिः । एता । सम् । कर्मारः-इव । अधमत् । देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत

10.72.3

देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत । तत् । आशाः । अनु । अजायन्त । तत् । उत्तान-पदः । परि

10.72.4

भूः । जज्ञे । उत्तान-पदः । भुवः । आशाः । अजायन्त । अदितेः । दक्षः । अजायत । दक्षात् । ओं इति । अदितिः । परि

10.72.5

अदितिः । हि । अजनिष्ट । दक्ष । या । दुहिता । तव । ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृत-बन्धवः

10.72.6

॥1॥.
-र्व्_8:3।2-
यत् । देवाः । अदः । सलिले । सु-संरब्धाः । अतिष्ठत । अत्र । वः । नृत्यताम्-इव । तीव्रः । रेणुः । अप । आयत

10.72.7

यत् । देवाः । यतयः । यथा । भुवनानि । अपिन्वत । अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन

10.72.8

अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि । देवान् । उप । प्र । ऐत् । सप्त-भिः । परा । मार्ताण्डम् । आस्यत्

10.72.9

सप्त-भिः । पुत्रैः । अदितिः । उप । प्र । ऐत् । पूर्व्यम् । युगम् । प्र-जायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc