ऋग्वेदसंहिता, पदपाठ · अध्याय 10.71
॥22॥.
-र्व्_8:2।23-
(र्व्_10,71)
बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नाम-धेयम् । दधानाः । यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । नि-हितम् । गुहा । आविः
सक्तुम्-इव । तित-उना । पुनन्तः । यत्र । धीराः । मनसा । वाचम् । अक्रत । अत्र । सखायः । सख्यानि । जानते । भद्रा । एषाम् । लक्ष्मीः । निहिता । अधि । वाचि
यज्ञेन । वाचः । पद-वीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्र-विष्टाम् । ताम् । आभृत्य । वि । अदधुः । पुरु-त्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते
उत । त्वः । पश्यन् । न । ददर्श । वाचम् । उत । त्वः । शृण्वन् । न । शृणोति । एनाम् । उतो इति । त्वस्मै । तन्वम् । वि । सस्रे । जायाइव । पत्ये । उशती । सु-वासाः
उत । त्वम् । सख्ये । स्थिर-पीतम् । आहुः । न । एनम् । हिन्वन्ति । अपि । वाजिनेषु । अधेन्वा । चरति । मायया । एषः । वाचम् । शुश्रु-वान् । अफलाम् । आपुष्पाम्
॥23॥.
-र्व्_8:2।24-
यः । तित्याज । सचि-विदम् । सखायम् । न । तस्य । वाचि । अपि । भागः । अस्ति । यत् । ईम् । शृणोति । अलकम् । शृणोति । नहि । प्र-वेद । सु-कृतस्य । पन्थाम्
अक्षण्-वन्तः । कर्ण-वन्तः । सखायः । मनः-जवेषु । असमाः । बभूवुः । आदघ्नासः । उप-कक्षासः । ओं इति । त्वे । ह्रदाः-इव । स्नात्वाः । ओं इति । त्वे । ददृश्रे
हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्-यजन्ते । सखायः । अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओह-ब्रह्माणः । वि । चरन्ति । ओं इति । त्वे
इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुते--करासः । ते । एते । वाचम् । अभि-पद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्र-जज्ञयः
सर्वे । नन्दन्ति । यशसा । आगतेन । सभासाहेन । सख्या । सखायः । किल्बिष-स्पृत् । पितु-सणिः । हि । एषाम् । अरम् । हितः । भवति । वाजिनाय
ऋचाम् । त्वः । पोषम् । आस्ते । पुपुष्वान् । गायत्रम् । त्वः । गायति । शक्वरीषु । ब्रह्मा । त्वः । वदति । जात-विद्याम् । यज्ञस्य । मात्राम् । वि । मिमीते । ओं इति । त्वः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0