ऋग्वेदसंहिता, पदपाठ · अध्याय 10.70
॥20॥.
-र्व्_8:2।21-
(र्व्_10,70)
इमाम् । मे । अग्ने । सम्-इधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् । वर्ष्मन् । पृथिव्याः । सुदिन-त्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इतिसु-क्रतो । देव-यज्या
आ । देवानाम् । अग्र-यावा । इह । यातु । नराशंसः । विश्व-रूपेभिः । अश्वैः । ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देव-तमः । सुसूदत्
शश्वत्-तमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् । वहिष्ठैः । अश्वैः । सु-वृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता
वि । प्रथताम् । देव-जुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति । अहेळत । मनसा । देव । बर्हिः । इन्द्र-ज्येष्ठान् । उशतः । यक्षि । देवान्
दिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् । उशतीः । द्वारः । महिना । महत्-भिः । देवम् । रथम् । रथ-युः । धारयध्वम्
॥21॥.
-र्व्_8:2।22-
देवी इति । दिवः । दुहितरा । सुशिल्पे इतिसु-शिल्पे । उषसानक्ता । सदताम् । नि । योनौ । आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगेइतिसु-भगे । उप-स्थे
ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्-इद्धः । प्रिया । धामानि । अदितेः । उप-स्थे । पुरः-हितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुः-तरा । द्रविणम् । आ । यजेथाम्
तिस्रः । देवीः । बर्हिः । इदम् । वरीयः । आ । सीदत । चकृम । वः । स्योनम् । मनुष्वत् । यज्ञम् । सु-धिता । हवींषि । इळा । देवी । घृत-पदी । जुषन्त
देव । त्वष्टः । यत् । ह । चारु-त्वम् । आनट् । यत् । अङ्गिरसाम् । अभवः । सचाभूः । सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणः-दः । सु-रत्नः
वनस्पते । रशनया । नि-यूय । देवानाम् । पाथः । उप । वक्षि । विद्वान् । स्वदाति । देवः । कृणवत् । हवींषि । अवताम् । द्यावापृथिवी इति । हवम् । मे
आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् । सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0