भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.69

10.69.1

॥18॥.
-र्व्_8:2।19-
(र्व्_10,69)
भद्राः । अग्नेः । वध्रि-अश्वस्य । सम्-दृशः । वामी । प्र-णीतिः । सु-रणाः । उप-इतयः । यत् । ईम् । सु-मित्राः । विशः । अग्रे । इन्धते । घृतेन । आहुतः । जरते । दविद्युतत्

10.69.2

घृतम् । अग्नेः । वध्रि-अश्वस्य । वर्धनम् । घृतम् । अन्नम् । घृतम् । ओं इति । अस्य । भेदनम् । घृतेन । आहुतः । उर्विया । वि । पप्रथे । सूर्यः-इव । रोचते । सर्पिः-आसुतिः

10.69.3

यत् । ते । मनुः । यत् । अनीकम् । सु-मित्रः । सम्-ईधे । अग्ने । तत् । इदम् । नवीयः । सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः

10.69.4

यम् । त्वा । पूर्वम् । ईळितः । वध्रि-अश्वः । सम्-ईधे । अग्ने । सः । इदम् । जुषस्व । सः । नः । स्ति-पाः । उत । भव । तनू-पाः । दात्रम् । रक्षस्व । यत् । इदम् । ते । अस्मे इति

10.69.5

भव । द्युम्नी । वाध्रि-अश्व । उत । गोपाः । मा । त्वा । तारीत् । अभि-मातिः । जनानाम् । शूरः-इव । घृष्णुः । च्यवनः । सु-मित्रः । प्र । नु । वोचम् । वाध्रि-अश्वस्य । नाम

10.69.6

सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ । शूरः-इव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनायून् । अभि । स्याः

10.69.7

॥19॥.
-र्व्_8:2।20-
दीर्घ-तन्तुः । बृहत्-उक्षा । अयम् । अग्निः । सहस्र-स्तरीः । शत-नीथः । ऋभ्वा । द्यु-मान् । द्युमत्-सु । नृ-भिः । मृज्यमानः । सु-मित्रेषु । दीदयः । देवयत्-सु

10.69.8

त्वे इति । धेनुः । सु-दुघा । जातवेदः । असश्चताइव । समना । सबः-धुक् । त्वम् । नृ-भिः । दक्षिणावत्-भिः । अग्ने । सु-मित्रेभिः । इध्यसे । देवयत्-भिः

10.69.9

देवाः । चित् । ते । अमृताः । जात-वेदः । महिमानम् । वाधि-अश्व । प्र । वोचन् । यत् । सम्-पृच्छम् । मानुषीः । विशः । आयन् । त्वम् । नृ-भिः । अजयः । त्वावृधेभिः

10.69.10

पिताइव । पुत्रम् । अभिभः । उप-स्थे । त्वाम् । अग्ने । वध्रि-अश्वः । सपर्यन् । जुषाणः । अस्य । सम्-इधम् । यविष्ठ । उत । पूर्वान् । अवनोः । व्राधतः । चित्

10.69.11

शश्वत् । अग्निः । वध्रि-अश्वस्य । शत्रून् । नृ-भिः । जिगाय । सुतसोमवत्-भिः । समनम् । चित् । अदहः । चित्रभानो इतिचित्र-भानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित्

10.69.12

अयम् । अग्निः । वध्रि-अश्वस्य । वृत्र-हा । सनकात् । प्र-इद्धः । नमसा । उप-वाक्यः । सः । नः । अजामीन् । उत । वा । वि-जामीन् । अभि । तिष्ठ । शर्धतः । वाध्रि-अश्व

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc