भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.6

10.6.1

॥33॥.
-र्व्_7:6।1-
(र्व्_10,6)
अयम् । सः । यस्य । शर्मन् । अवः-भिः । अग्नेः । एधते । जरिता । अभिष्टौ । ज्येष्ठेभिः । यः । भानु-भिः । ऋषूणाम् । परि-एति । परि-वीतः । विभावा

10.6.2

यः । भानु-भिः । विभावा । वि-भाति । अग्निः । देवेभिः । ऋत-वा । अजस्रः । आ । यः । विवाय । सख्या । सखि-भ्यः । परि-ह्वृतः । अत्यः । न । सप्तिः

10.6.3

ईशे । यः । विश्वस्याः । देव-वीतेः । ईशे । विश्व-आयुः । उषसः । वि-उष्टौ । आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्ट-रथः । स्कभ्नाति । शूषैः

10.6.4

शूषेभिः । वृधः । जुषाणः । अर्कैः । देवान् । अच्छ । रघु-पत्वा । जगाति । मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्-मिश्लः । अग्निः । आ । जिघर्ति । देवान्

10.6.5

तम् । उस्राम् । इन्द्रम् । न । रेजमानम् । अग्निम् । गीः-भिः । नमः-भिः । आ । कृणुध्वम् । आ । यम् । विप्रासः । मति-भिः । गृणन्ति । जात-वेदसम् । जुह्वम् । सहानाम्

10.6.6

सम् । यस्मिन् । विश्वा । वसूनि । जग्मुः । वाजे । न । अश्वाः । सप्ति-वन्तः । एवैः । अस्मे इति । ऊतीः । इन्द्रवात-तमाः । अर्वाचीनाः । अग्ने । आ । कृणुष्व

10.6.7

अध । हि । अग्ने । मह्ना । नि-सद्य । सद्यः । जज्ञानः । हव्यः । बभूथ । तम् । ते । देवासः । अनु । केतम् । आयन् । अध । अवर्धन्त । प्रथमासः । ऊमाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc