भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.68

10.68.1

॥16॥.
-र्व्_8:2।17-
(र्व्_10,68)
उद-प्रुतः । न । वयः । रक्षमाणाः । वावदतः । अभ्रियस्य-इव । घोषाः । गिरि-भ्रजः । न । ऊर्मयः । मदन्तः । बृहस्पतिम् । अभि । अर्काः । अनावन्

10.68.2

सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगः-इव । इत् । अर्यमणम् । निनाय । जने । मित्रः । न । दम्पती इतिदम्-पती । अनक्ति । बृहस्पते । वाजय । आशून्-इव । आजौ

10.68.3

साधु-अर्याः । अतिथिनीः । इषिराः । स्पार्हाः । सु-वर्णाः । अनवद्य-रूपाः । बृहस्पतिः । पर्वतेभ्यः । वि-तूर्य । निः । गाः । ऊपे । यवम्-इव । स्थिवि-भ्यः

10.68.4

आप्रुषायन् । मधुना । ऋतस्य । योनिम् । अव-क्षिपन् । अर्कः । उल्काम्-इव । द्योः । बृहस्पतिः । उद्धरन् । अश्मनः । गाः । भूम्याः । उद्नाइव । वि । त्वचम् । बिभेद

10.68.5

अप । ज्योतिषा । तमः । अन्तरिक्षात् । उद्नः । शीपालम्-इव । वातः । आजत् । बृहस्पतिः । अनु-मृश्य । वलस्य । अभ्रम्-इव । वातः । आ । चक्रे । आ । गाः

10.68.6

यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपः-भिः । अर्कैः । दत्-भिः । न । जिह्वा । परि-विष्टम् । आदत् । आविः । निधीन् । अकृणोत् । उस्रियाणाम्

10.68.7

॥17॥.
-र्व्_8:2।18-
बृहस्पतिः । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् । आण्डाइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रियाः । पर्वतस्य । त्मना । आजत्

10.68.8

अश्ना । अपि-नद्धम् । मधु । परि । अपश्यत् । मत्स्यम् । न । दीने । उदनि । क्षियन्तम् । निः । तत् । जभार । चमसम् । न । वृक्षात् । बृहस्पतिः । वि-रवेण । वि-कृत्य

10.68.9

सः । उषाम् । अविन्दत् । सः । स्वर् इति स्वः । सः । अग्निम् । सः । अर्केण । वि । बबाधे । तमांसि । बृहस्पतिः । गो--वपुषः । वलस्य । निः । मज्जानम् । न । पर्वणः । जभार

10.68.10

हिमाइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वलः । गाः । अननु-कृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथः । उत्-चरातः

10.68.11

अभि । श्यावम् । न । कृशनेभिः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् । रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः

10.68.12

इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आनोनवीति । बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृ-भिः । नः । वयः । धात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc