ऋग्वेदसंहिता, पदपाठ · अध्याय 10.67
॥14॥.
-र्व्_8:2।15-
(र्व्_10,67)
इमाम् । धियम् । सप्त-शीर्ष्णीम् । पिता । नः । ऋत-प्रजाताम् । बृहतीम् । अविन्दत् । तुरीयम् । स्वित् । जनयत् । विश्व-जन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन्
ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः । विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त
हंसैः-इव । सखि-भिः । वावदत्-भिः । अश्मन्-मयानि । नहना । वि-अस्यन् । बृहस्पतिः । अभि-कनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत्
अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ । बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् उस्राः । आ । अकः । वि । हि । तिश्रः । आवर् इत्य् आवः
वि-भिद्य । पुरम् । शयथा । ईम् । अपाचीम् । निः । त्रीणि । साकम् । उद-धेः । अकृन्तत् । बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्-इव । द्यौः
इन्द्रः । वलम् । रक्षितारम् । दुघानाम् । करेण-इव । वि । चकर्त । रवेण । स्वेदाञ्जि-भिः । आशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात्
॥15॥.
-र्व्_8:2।16-
सः । ईम् । सत्येभिः । सखि-भिः । शुचत्-भिः । गो--धायसम् । वि । धन-सैः । अदर्दर् इत्य् अदर्दः । ब्रह्मणः । पतिः । वृष-भिः । वराहैः । घर्म-स्वेदेभिः । द्रविणम् । वि । आनट्
ते । सत्येन । मनसा । गो--पतिम् । गाः । इयानासः । इषणयन्त । धीभिः । बृहस्पतिः । मिथः-अवद्यपेभिः । उत् । उस्रियाः । असृजत । स्वयुक्-भिः
तम् । वर्धयन्तः । मति-भिः । शिवाभिः । सिंहम्-इव । नानदतम् । सध-स्थे । बृहस्पतिम् । वृषणम् । शूर-सातौ । भरे--भरे । अनु । मदेम । जिष्णुम्
यदा । वाजम् । असनत् । विश्व-रूपम् । आ । द्याम् । अरुक्षत् । उत्-तराणि । सद्म । बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा
सत्याम् । आशिषम् । कृणुत । वयः-धै । कीरिम् । चित् । हि । अवथ । स्वेभिः । एवैः । पश्चा । मृधः । अप । भवन्तु । विश्वाः । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इतिविश्वम्-इन्वे
इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य । अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0