भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.66

10.66.1

॥11॥.
-र्व्_8:2।12-
(र्व्_10,66)
देवान् । हुवे । बृहत्-श्रवसः । स्वस्तये । ज्योतिः-कृतः । अध्वरस्य । प्र-चेतसः । ये । ववृधुः । प्र-तरम् । विश्व-वेदसः । इन्द्र-ज्येष्ठासः । अमृताः । ऋत-वृधः

10.66.2

इन्द्र-प्रसूताः । वरुण-प्रशिष्टाः । ये । सूर्यस्य । ज्योतिषः । भागम् । आनशुः । मरुत्-गणे । वृजने । मन्म । धीमहि । माघोने । यज्ञम् । जनयन्त । सूरयः

10.66.3

इन्द्रः । वसु-भिः । परि । पातु । नः । गयम् । आदित्यैः । नः । अदितिः । शर्म । यच्छतु । रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा । नः । ग्नाभिः । सुविताय । जिन्वतु

10.66.4

अदितिः । द्यावापृथिवी इति । ऋतम् । महत् । इन्द्राविष्णूइति । मरुतः । स्वः । बृहत् । देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सु-दंससम्

10.66.5

सरस्वान् । धीभिः । वरुणः । धृत-व्रतः । पूषा । विष्णुः । महिमा । वायुः । अश्विना । ब्रह्म-कृतः । अमृताः । विश्व-वेदसः । शर्म । नः । यंसन् । त्रि-वरूथम् । अंहसः

10.66.6

॥12॥.
-र्व्_8:2।13-
वृषा । यज्ञः । वृषणः । सन्तु । यज्ञियाः । वृषणः । देवाः । वृषणः । हविः-कृतः । वृषणा । द्यावापृथिवी इति । ऋत-वरी इत्य् ऋत-वरी । वृषा । पर्जन्यः । वृषणः । वृष-स्तुभः

10.66.7

अग्नीषोमा । वृषणा । वाज-सातये । पुरु-प्रशस्ता । वृषणौ । उप । ब्रुवे । यौ । ईजिरे । वृषणः । देव-यज्यया । ता । नः । शर्म । त्रि-वरूथम् । वि । यांसतः

10.66.8

धृत-व्रताः । क्षत्रियाः । यज्ञनिः-कृतः । बृहत्-दिवाः । अध्वराणाम् । अभि-श्रि यः । अग्नि-हाओतारः । ऋत-सापः । अद्रुहः । अपः । असृजन् । अनु । वृत्र-तूयेर्

10.66.9

द्यावापृथिवी इति । जनयन् । अभि । व्रता । आपः । ओषधीः । वनिनानि । यज्ञिया । अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः

10.66.10

धर्तारः । दिवः । ऋभवः । सु-हस्ताः । वातापर्जन्या । महिषस्य । तन्यतोः । आपः । ओषधीः । प्र । तिरन्तु । नः । गिरः । भगः । रातिः । वाजिनः । यन्तु । मे । हवम्

10.66.11

॥13॥.
-र्व्_8:2।14-
समुद्रः । सिन्धुः । रजः । अन्तरिक्षम् । अजः । एक-पात् । तनयित्नुः । अर्णवः । अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम

10.66.12

स्याम । वः । मनवः । देव-वीतये । प्राञ्चम् । नः । यज्ञम् । प्र । नयत । साधु-या । आदीत्याः । रुद्राः । वसवः । सु-दानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत

10.66.13

दैव्याः । होतारा । प्रथमा । पुरः-हिता । ऋतस्य । पन्थाम् । अनु । एमि । साधु-या । क्षेत्रस्य । पतिम् । प्रति-वेशम् । ईमहे । विश्वान् । देवान् । अमृतान् । अप्र-युच्छतः

10.66.14

वसिष्ठासः । पितृ-वत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषि-वत् । स्वस्तये । प्रीताः-इव । ज्ञातयः । कामम् । आइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु

10.66.15

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्र-तस्थुः । ते । नः । रासन्ताम् । उरु-गायम् । अद्य । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc