भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.65

10.65.1

॥8॥.
-र्व्_8:2।9-
(र्व्_10,65)
अग्निः । इन्द्रः । वरुणः । मित्रः । आर्यमा । वायुः । पूषा । सरस्वती । स-जोषसः । आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः

10.65.2

इन्द्राग्नी इति । वृत्र-हत्येषु । सत्पती इतिसत्-पती । मिथः । हिन्वाना । तन्वा । सम्-ओकसा । अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृत-श्रीः । महिमानम् । ईरयन्

10.65.3

तेषाम् । हि । मह्ना । माहताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋत-ज्ञाः । ऋत-वृधाम् । ये । अप्सवम् । अर्णवम् । चित्र-राधसः । ते । नः । रासन्ताम् । महये । सु-मित्र्याः

10.65.4

स्वः-नरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा । पृक्षाः-इव । महयन्तः । सु-रातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः

10.65.5

मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्-राजा । मनसा । न । प्र-युच्छतः । ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी
इति । नाधसी इति । वृतौ

10.65.6

॥9॥.
-र्व्_8:2।10-
या । गौः । वर्तनिम् । परि-एति । निः-कृतम् । पयः । दुहाना । व्रत-नीः । अवारतः । सा । प्र-ब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते

10.65.7

दिवक्षसः । अग्नि-जिह्वाः । ऋत-वृधः । ऋतस्य । योनिम् । वि-मृशन्तः । आसते । द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः

10.65.8

परि-क्षिता । पितरा । पूर्वजावरी इतिपूर्व-जावरी । ऋतस्य । योना । क्षयतः । सम्-ओकसा । द्यावापृथिवी इति । वरुणाय । सव्रतेइतिस-व्रते । घृत-वत् । पयः । महिषाय । पिन्वतः

10.65.9

पर्जन्यावाता । वृषभा । पुरीषिणा । इन्द्रवायू इति । वरुणः । मित्रः । अर्यमा । देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्-सु । ये

10.65.10

त्वष्टारम् । वायुम् । ऋभवः । यः । ओहते । दैव्या । होतारौ । उषसम् । स्वस्तये । बृहस्पतिम् । वृत्र-खादम् । सु-मेधसम् । इन्द्रियम् । सोमम् । धन-साः । ओं इति । ईमहे

10.65.11

॥10॥.
-र्व्_8:2।11-
ब्रह्म । गाम् । अश्वम् । जनयन्तः । ओषधीः । वनस्पतीन् । पृथिवीम् । पर्वतान् । अपः । सूर्य । दिवि । रोहयन्तः । सु-दानवः । आर्या । व्रता । वि-सृजन्तः । अधि । क्षमि

10.65.12

भुज्युम् । अंहसः । पिपृथः । निः । अश्विना । श्यावम् । पुत्रम् । वध्रि-मत्याः । अजिन्वतम् । कम-द्युवम् । वि-मदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः

10.65.13

पावीरवी । तन्यतुः । एक-पात् । अजः । दिवः । धर्ता । सिन्धुः । आपः । समुद्रियः । विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्-ध्या

10.65.14

विश्वे । देवाः । सह । धीभिः । पुरम्-ध्या । मनोः । यजत्राः । अमृताः । ऋत-ज्ञाः । राति-साचः । अभि-साचः । स्वः-विदः स्वः । गिरः । ब्रह्म । सु-उक्तम् । जुषेरत

10.65.15

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्र-तस्थुः । ते । नः । रासन्ताम् । उरु-गायम् । अद्य । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc